________________
११४ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
दुर्गावस्थित्यानभिभवनीयतां रत्नोपचयात्समृद्धतां कथयन् प्रलोभयति - २७३ - आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता ॥ अर्पितरु-सुगन्धि-स्रक् तस्यां वस मया सह ॥९०॥
आवास इत्यादि --तस्यां पुर्यां आवासे गृहे । भावसत्यस्मिन्निति अधिकरणे घञ् । मया सह त्वं वस । प्रार्थनायां लोट् । सिकसंमृष्टे पूर्व सिके पश्चासंसृष्टे । गन्धैर्लिप्तवासिता सती पूर्व लिप्ता चन्दनादिमिर्गन्धैः पश्चाद्वासिता धूपिता । संमृष्टादिभिः '७२६ । पूर्वकाल - 1२1१1४९ | ' इत्यादिना सः । अर्पिता न्यस्ता उर्वी महती सुगन्धिस्रक् सुरभिमाला यस्यां सा त्वम् ॥
किमिति त्वया सह वसामीति चेदाह -
२७४ - संगच्छ पौंस्त्रि ! स्त्रैणं मां युवानं तरुणी शुभे ! ॥
राघवः प्रोष्य-पापीयान्, जहीहि तर्म - किं चनम् ९१
संगच्छेत्यादि - हे पौखि ! पुमांसमईति तद्धिता वा । अहर्थे हितार्थे वा '१०७९ | स्त्री- पुंसाभ्यां नञ्- स्त्रञौ ।५।१।८७|' स्त्रीप्रत्यये 'नन्- नजीकक्ख्युंस्तरुण-तलुनानामुपसंख्यानम्' इति । मां युवानं तरुणं संगच्छ भङ्गीकुरु । गमेः प्रार्थनायां लोट् । '२४०० | इषु गमि - १७।३।७७१' इत्यादिना छत्वम् । ' २६९९ । समो गम्यृच्छि | १|३|२९|' इत्यादिना तङ् न भवति सकर्मकत्वात् । विशेषतः स्त्रैणं स्त्रियै हितमर्हन्तं वा । पूर्ववत्प्रत्ययः । तरुणी युवती सती शुमे कल्याणि शोभत इति इगुपधलक्षणः कः । ममापि तादृशो भर्तास्तीति चेदाह - राघवः प्रोष्यपापीयानिति । पापशब्दात् '२०२०। विन्मतोर्लुक् |५|३|६५|' इति ईयसुन् लुक्क मतुपः । प्रोष्यपापीयानिति ' ७५४ । मयूरव्यंसकादयश्च |२| १|७२ | इति सः । देशान्तरं यात्वा पापवत्तरः । तमकिञ्चनं दरिद्रम् । न विद्यते किंचन यस्येति । 'सर्वनामाव्ययसंज्ञाया उपसर्जनप्रतिषेधः' इति वचनाचाव्ययसंज्ञा तेन न विभक्तिलोपः । जहीहि त्यज । ईत्वस्य ' २४९८| जावे | ६ |४| ११६॥ ' इति वा वचनाद्विकल्पः ॥
२७५ - अश्नीत- पिबतीयन्ती प्रसिता स्मर- कर्मणि ॥
वशे कृत्य दशग्रीवं मोदस्व वर - मन्दिरे ॥ ९२ ॥
O
अनीतेत्यादि - अनीतपिबतेति '७५४ । मयूरन्यंसक - १२।१।७२१' इत्यादित्वात् सः । तत्र हि 'आख्यतमाख्यातेन क्रियासातत्ये' इति पठ्यते । सततमनीतपिबतेत्येवं भृत्यजनानादेष्टुमिच्छतीति ' २६५७ । सुप आत्मनः क्यच् | ३|१|८' अनीतपिबतीयन्ती । प्रसिता स्मरकर्मणि आधिक्येन प्रवृत्ता कामव्यापारे । '६४१ । प्रसितोत्सुकाभ्यां तृतीया च |२| ३ | ४४|' इति चकारात् सप्तमी । वशेकृत्यानुवर्तिनं दशग्रीवं कृत्वा । ७७५ | साक्षात्प्रभृतीनि च । १|४|७४।' इति गतिसंज्ञा । मोदस्व हर्षे जनय । वरमन्दिरे श्रेष्ठगृहे स्थिता ॥
I
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com