________________
निकान्तः । 'निरादया गया इस्तत्वम् । हृतपुष्पच धनदस्यासीत
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ११३
अध्यास्ते ऽन्तर्-गिरं यस्मात् ,
कस् तन् ना ऽवैति कारणम्. ॥ ८७ ॥ .. निर्लङ्क इत्यादि-यस्मात्कारणात् धनानां स्वामी धनदः । अन्तर्गिरमध्यास्ते अध्यासितवान् । गिरेः कैसलास्थान्तर्मध्ये । विभत्त्यर्थेऽव्ययीभावः । '६८३॥ गिरेश्च सेनकस्य ।५।४।११२।' इति टच् । '५४२। अधि-शीङ्-स्थाऽऽसाम्-११४१४६।' इति कर्मसंज्ञा । तेन '६५८। तृतीयासप्तम्योबहुलम् ।।४।०४।' इत्यम्भावो न भवति । '६५७। नाव्ययीभावात्-१२।४।०३।' इत्यमेव भवति । तत्कारणं मम पराक्रमं मां वा को नावैति न जनाति । कीदृशः। निर्लङ्कः लङ्कातो निष्क्रान्तः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति सः । '६५५। एकविभक्ति च-१।२।४।' इत्युपसर्जनसंज्ञायां इस्वत्वम् । हृतपुष्पकः हृतं आच्छिन्नं पुष्पकाख्यं विमानं यस्य । अत एव विमदोऽपेतदर्पः । लङ्का पुष्पकं च धनदस्यासीत् तदाच्छित्त्वा अनेन गृहीतमिति ॥ २७१-भिन्न-नौक इव ध्यायन्
मत्-तो बिभ्यद् यमः स्वयम् ॥ कृष्णि-मानं दधानेन
मुखेना ऽऽस्ते निरुद्यतिः ॥ ८८ ॥ भिन्नत्यादि-स्वयं साक्षान्मत्तो बिभ्यत् त्रस्यन् यमो वैलक्षण्यात् मुखेन कृष्णिमानं कृष्णवर्णत्वम् । १७८७। वर्णदृढादिभ्यःध्यञ्च ।५।१११२३॥' इति चक दिमनिच् । दधानेन धारयता । इत्थम्भूते तृतीया । निरुद्यतिः निरुद्यमः आस्ते । उत्पूर्वाद्यमेः '३२७२। स्त्रियां क्तिन् ।३।३।९।' अनुनासिकलोपः । कीदृशः । ध्यायन् चिन्तयन् । 'किं मामापतितं यदहमनेन हृतसर्वस्वः' इति । भिन्ननौक इव विपन्नपोतवणिगिव । '८८९॥ उरःप्रभृतिभ्यः-५।४।१५१ ॥
एवं स्वपौरुषं प्रदर्य स्वीकर्तुमाह२७२-समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी ॥
रत्न-पारायणं नाम्ना लकैति मम मैथिलि! ॥ ८९ ।। समुद्रेत्यादि हे मैथिलि ! लङ्केति नाम्ना मम पुरी। कीदृशी। समुद्र एवोपत्यका आसन्ना भूर्यस्याः सा समुद्रोपत्यका । समुद्रस्य पर्वतोपत्यकात्वात् । समु. द्रौपत्यकेति समासे साधुत्वं न भवति । यतः संज्ञाधिकारात् पर्वतस्यासन्ने अधिरूढे उपाधिभ्यां त्यकन्प्रत्ययान्तयोरुपत्यकाधित्यकाशब्दयोः साधुत्वमुक्तम् । 'प्रतिषेधे त्यकन उपसंख्यानम्' इति '४६३। प्रत्ययस्थात्-७३।४४।' इतीकारो न भवति । हैमी हेमविकारा । १५३२॥ प्राणिरजतादिभ्योऽञ् ।४।३।१५४॥' पर्वताधित्यका । त्रिकूटपर्वतस्योपरि स्थिता । रत्नपारायणं यत्र रत्नानां पारमवसा. नमयन्ते बुध्यन्ते तत्परीक्षकाः । सर्वरत्नस्थानमित्यर्थः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com