________________
११२ भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
संदर्शिताऽऽन्तराकूतस्
तामवादीद् दशाननः, ॥ ८३ ॥ अथेत्यादि-अथैवमुक्तो जानक्या दशाननस्तामवादीत् उक्तवान् । आयस्थन् क्रोधाविष्टत्वात् शरीरं खेदयन् । २२८७। यसँ प्रयत्ने' इति देवादिकः परस्मैपदी । क्रोधादेव कषायाक्षः । '८५२। बहुव्रीही सक्थ्यक्ष्णोः-५१११३॥' इति षच् । स्यन्नैः सृतैः स्वेदकणैरुल्वणः उद्भटः व्याप्त इत्यर्थः । स्यन्देनिष्ठायां रूपम् । संदर्शितमान्तरमन्तर्गतमाकूतमभिप्रायो येन स एवंविधः ॥ २६७-'कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् ॥ ____ को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम्. ॥ ८४ ॥
कृत इत्यादि-कनिष्ठाया अपत्यं ज्येष्टाया अपत्यमिति ११२३। स्त्रीभ्यो ढक् ।४।१।१२०।। ११३१॥ कल्याण्यादीनामिनङ् ।४।१।१२६॥' तयोः कल्या. प्यादिषु पठितत्वात् । कनिष्ठासुतस्य भरतस्य कृते निमित्ते । ज्येष्ठायाः सुतः निरुपयोगितया विवासितः विसर्जितः । विपूर्वस्य वसतेहे तुमण्ण्यन्तस्य निष्ठायां रूपम् । तं नग्नमुषितप्रख्यं यथा कश्चिन्मुषितो नग्नो भवति तद्वद् भूतम् । '७२६। पूर्वकाल-२।१।४९।' इति सः । तयोः पूर्वापरकालत्वात् । राजदन्तादिस्वात्परनिपातः । ईदृशं राघवं को बहु मन्येत श्लाघेत । नैवेत्यर्थः ॥ २६८-राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान् ॥
यद्यसौ कूप-माण्डूकि! तवैतावति कः स्मयः ॥ ८५॥ राक्षसानित्यादि-अध्वरेष्विष्टिनामित्यस्योत्तरमाह । यद्यसौ राक्षसान् पिण्डीशूरान् पिण्ड्यामेव शूरान् भोजने एव शूरान् । ७२५। पानेसमिताद. यश्च ।२।१॥४८॥' इति सः । बटुयज्ञेषु कुब्राह्मणयज्ञेषु । निरस्तवान् तिरस्कृतवान् । हे कूपमाण्डूकि कूपे माण्डूकीवं । पूर्ववत् सः । ११२२। ढक् च मण्डूकात् । ४।१।१९।' इति चकारादण वापत्ये । एतावति स्वल्पे वस्तुनि तव कः मयः । नैव युज्यते ॥
मत्पराक्रमे तु युक्तः । वत्रापि मम न युक्तं वक्तुमित्याह२६९-मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः॥
युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः ॥ ८६ ॥ मत्परेत्यादि-राज्यभोगादयः परिच्छदो हस्त्यश्वादिः स मत्पराक्रमे संक्षिप्तो ऽपहृतो यस्य हरेरिन्द्रस्य स यथा दरिद्राति निरर्थको भवति तन्ममैव किं वक्तुं युक्तमात्मगुणवादस्य लजाकरत्वात् । दरिदातेरादादिकत्वाच्छपो लुक् ॥ २७०-निर्-लङ्को वि-मदः स्वामी
धनानां हृत-पुष्पकः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com