________________
तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः - १११
मुख्येन आगतवान् । लुङ् । च्लेरङि रूपम् । पितुर्नियोगात् । नायोग्यत्वात् । स मे भर्तेति योज्यम् ॥
२६३ - पतत्रि - क्रोष्टु - जुष्टानि रक्षांसि भयदे वने ॥
यस्य बाण - निकृत्तानि श्रेणी - भूतानि शेरते. ॥ ८० ॥ पतत्रीत्यादि - यस्य बाणैर्निकृत्तानि छिन्नानि रक्षांसि भयदे वने दीर्घनिया शेरते स मम भर्तेति योज्यम् । शेरत इति ' २४४२ । शीङो रुट् | ७|१|६| ' कीदृशानि । अश्रेणयः श्रेणयो भूतानि । '७६२ । ऊर्यादिच्विडाचश्च 1918 | ६१ | ' इति व्यन्तानां '७६१| कुगतिप्रादयः | २|२|१८|' इति सः । '२१२० । वौत्र |७|४| २६ ।' इति दीर्घः । च्व्यर्थानां तु '७३८ | श्रेण्यादयः कृतादिभिः | २|१| ५९ |' इत्ययं विषयः । पतत्रिभिः क्रोष्टुभिश्च जुष्टानि परिवृतानि ॥ २६४ - दीव्यमानं शितान् बाणानस्यमानं महा- गदाः ||
निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि ॥ ८१ ॥
दीव्येत्यादि - शितांस्तीक्ष्णान् बाणान् । दीव्यमानं क्षेप्तुं शक्तं तच्छीलं वा । अनेकार्थत्वाद्धातूनां दिवेः '३१०९ । ताच्छील्य- वयोवचन- १३।२।१२९ |' इत्यादिना शानच् । '२०५ । दिवादिभ्यः श्यन् | ३ |१| ६९ |' महागदाः अस्यमानं क्षेमं शक्तं तच्छीलं वा । पूर्ववच्छानच् । शात्रवान् शत्रून् । प्रज्ञादित्वादण् । निम्नानं हन्तुं शक्तं तच्छीलं वा । पूर्ववत् प्रत्ययः । हन्तेः ' २६६३ । गमहन|६|४|९८|' इत्युपधालोपः । '३५८ । हो हन्तेः । ७१३/५४ |' इति कुत्वम् । एवंविधं रामं कथं नावगच्छसि । तेन कर्मणा सर्वलोकविदितत्वादिति भावः ॥
:
२६५ - भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,
॥
एषितुं प्रेषितो यातो मया तस्य ऽनु-जो वनम् ॥८२॥
भ्रातरीत्यादि - यद्येवं कासावित्याह । असौ रामो मां भ्रातरि न्यस्य अर्पयित्वा मृगयामाखेटकं यातः । मृगेः स्वार्थिको णिच् । अदन्तत्वाच्च गुणो न भवति । तदन्तात् '३२७७॥ कृञः श च | ३ | ३ | १०० |' इत्यधिकृत्य 'परिचर्या-परिसर्या मृगयाटाट्यानामुपसंख्यानम्' इति भावे शप्रत्ययः । यक् । अल्लोपाभावश्च । टाप् । मृगान्विध्यतीति मृगावित् । वासौ भ्रातेति चेदाह । तस्यानुजः कनिष्ठो मया प्रेषितः सन् यातो वनम् । अनु पश्चाजायत इति । ' ३०११॥ अन्येष्वपि दृश्यते | ३ |२| १०१ |' इति डः । अनौ कर्मयुक्तमकर्मण्यपि भवति । किमर्थं । एषितुम् । तमेव ज्ञातुम् । '१२०२ । इषँ गतौ' इत्यस्य रूपम् । ज्ञानास्वात् । प्रेषित इति तस्यैव रूपम् ॥
२६६-अथा॑ ऽऽयस्यन् कषायाऽक्षः स्यन्न-स्वेद-कर्णाोल्बणः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com