________________
११. भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, शेषत्वेन विवक्षितत्वात् षष्ठी । ओजायमाना ओज इवाचरन्ती '२६६५। कर्तुः क्यङ् सलोपश्च ।३।१।११।' 'ओजसोऽप्सरसो नित्यम्' इति वचनात् । मां माभिभूदित्यतितेजस्विनी भवन्तीत्यर्थः । किमुवाच वचो वक्ष्यमाणम् । सादरा सती । परिव्राजक इति । गद्गदमनभिव्यक्तमसंस्कृतत्वात् ॥
कालापकम् (४)२६०-'महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम ॥
पितुः प्रियं-करो भर्ता क्षेमं-कारस् तपस्विनाम्.॥७७॥ महेत्यादि-यदुक्तं तेन के रहस्युपतिष्ठस इति अस्य प्रतिवचनं मम भर्ता महाकुलीनः महाकुलस्यापत्यमिति । ११६४। महाकुलादञ्-खजौ ।।१।१४१॥' इति खन् । किमादित्यवंशसंभवः । किं सोमवंशसंभवो वा महाकुलस्यापत्यमित्याह । ऐक्ष्वाके वंशे इक्ष्वाकूणामयमैक्ष्वाकः ।११४५। दाण्डिनायन-६।४।१७॥' इत्यादिना टिलोपनिपातनम् । अन्ये तत्र सन्तीत्याह । दाशरथिः दशरथस्थापत्यं यः स मम भर्ता । महाकुलीनः । कीदृशः । पितुः प्रियंकरः अनुकूलकारी । तपस्विनां च क्षेमंकारः । २९६१॥ क्षेमप्रियमद्रेऽण् च ।३।२।४४।' इति चकारात् खच् ॥ २६१-निहन्ता वैर-काराणां सतां बहु-करः सदा॥
पारश्वधिक-रामस्य शक्तेरन्त-करो रणे ॥ ७८ ॥ निहन्तेत्यादि-वैरकाराणां शत्रूणाम् । वैरपूर्वात् कृतः २९३७॥ न शब्द. श्लोक-३।२।२३।' इत्यादिना टे प्रतिषिद्धे अणेव भवति । निहन्तेति तृजन्तस्य प्रयोगः । तत्र कर्मणि षष्टी । सतां धर्मे स्थितानां बहुकरः बहुकार्य करोतीति । '२९३५। दिवा-विभा-३।२।२९॥' इति टः । स्त्रीविवक्षायां तु 'किं-यत्तद्वहुषु-' इति करोतेरच् । आपरयोः 'खनिशृभ्यां डिच्च' इत्यौणादिकः कुः परशुशब्दः । तत्पर्याय एवाव्युत्पन्नः परश्वधशब्दः । स प्रहरणं यस्य १६०८। परश्वधादृञ्च ।४।०५८।' तस्य परशुरामस्य सम्बन्धिन्याः शक्तः समार्थ्यस्यान्तकरो विनाशयिता । अन्तं करोतीति पूर्ववट्टः । रणे संग्रामे तत्र भवः ॥ २६२-अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा ॥
पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम् ॥ अध्वरेग्वित्यादि-इष्टमेभिरिति इष्टिनो यज्वानः । १४४८। इष्टादिभ्यश्च ।५।२।८८।' इतीनिः । किमिष्टवतः । अध्वरान् कर्माणि तत्र 'कस्यन्विषयस्य-' इति कर्मणि सप्तमी । अध्वरेविष्टिनामिति कर्मणि षष्ठी कृद्योगे । पाता रक्षिः ता। पूर्ती कर्मसु सर्वदा । पृणोतेर्निष्ठायां '२४९४॥ उदोष्ट्यपूर्वस्य । १०२।' इत्युत्वम् । '३०४०। न ध्या-ख्या-1८।२।५७।' इत्यादिना निष्ठानत्वप्रतिषेधः । पूर्तमनेनेति पूर्ववदिनिः । किं पूर्तमिति सर्वदा श्राद्धादिकर्मणि । पूर्ववत्सप्तमी । स राजस्वं राज्यम् । हित्वा त्यक्त्वा । वनमभ्यागमत् । आमि
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com