________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- १०९ २५६-वल्गूयन्तीं विलोक्य त्वां
स्त्री न मन्तूयतीह का, ॥ कान्ति नाऽभिमनायेत
को वा स्थाणु-समो ऽपि ते. ॥ ७३ ॥ वल्ग्वित्यादि-त्वां वल्गूयन्ती शोभमानां विलोक्य न मन्त्यति स्त्रीह का। इह जगति का स्त्री न मन्तयेत् कुप्येत् । सर्वदा कुप्यत्येव ईर्ष्यायुक्तत्वात् स्त्रीणाम् । असम्भावने लिङ् । वल्गु-मन्तुशब्दाभ्यां कण्ड्वादित्वाद्यक् । को वा को नाम स्थाणुसमोऽपि काष्ठतुल्योऽपि गुणदोषानभिज्ञत्वात्ते तव कान्ति विलोक्य नाभिमनायेत पूर्वमदृष्टत्वादनभिमनाः सन् अभिमनाः सचेता न भवेत् । पूर्ववल्लिङ् । अभिमनसो भृशादित्वात्क्यङ् सलोपश्च । महादेवतुल्यो वा आस्तामन्यः सोऽपि तावदभिमनायेत् ॥ २५७-दुःखायते जनः सर्वः, स एवैकः सुखायते,॥
यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके. ॥७॥ दुःखेत्यादि-स एवैको जनः सुखायते सुखं वेदयते । यस्यान्तिके समीपे न त्वं प्रतीपायसे न प्रतिकूलवर्तिनी भवसि । उत्सुकायमाना सती । यस्य पुनरन्तिके उत्सुकायमाना प्रतीपायसे स सर्वो जनः दुःखायते दुःखं वेदयते । सुख-दुःखशब्दाभ्यां '२६७४। सुखादिभ्यः कर्तृवेदनायाम् ॥३॥॥१८॥' इति क्यङ् । उत्सुक-प्रतीपशब्दाभ्यां भृशादित्वात् ॥ २५८-कः पण्डितायमानस् त्वा
मादायोऽऽमिष-सन्निभाम्॥ त्रस्यन् वैरायमाणेभ्यः
शून्यमन्ववसद् वनम्.' ॥ ७५ ॥ क इत्यादि-पण्डितायमानः अपण्डितः कथमपि पण्डितो भवन् । भृशादित्वात् क्यङ् । त्वामामिषसन्निभां सर्वजनप्रार्थनीयत्वात् । आदाय गृहीत्वा कः शून्यं वनमन्ववसत् । शून्ये वने अवसदित्यर्थः । '५४४॥ उपान्वध्याङ्वसः
॥४॥४८॥' इति कर्मसंज्ञा । कीदृशः । त्रस्यन् बिभ्यत् । वैरायमाणेभ्यः वैरं कुर्वाणेभ्यः । २६७३। शब्द-वैर-३।१७।' इत्यादिना क्यङ् । ५८८। भीत्रार्थानाम् ।।४।२५।' इत्यपादानसंज्ञा ॥ २५९-ओजायमाना तस्या ऽयं प्रणीय जनकाऽऽत्मजा ॥
उवाच दश-मूर्धानं साऽऽदरा गद्गदं वचः ॥ ७६ ॥ ओजेत्यादि-एवमुक्तवति रावणे जनकसुता दशमूर्धानमुवाच । दश मूर्धानः शिरांसि यस्य तस्याय प्रणीय दत्त्वा अतिथिरयमिति । सम्प्रदानस्य
भ. का. १० Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com