________________
१०८ भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, २५३-आपीत-मधुका भृङ्गः सुदिवेवाऽरविन्दिनी ॥
सत्-परिमल-लक्ष्मीका ना ऽ-मुस्काऽसीति मे मतिः. आपीतेत्यादि-परि सर्वतो मार्जनमिति परिमलः । कलत्रपक्षेत्यधिकृत्य मृनेष्टिलोपश्चेति कलप्रत्यय औणादिकः । इह सुरतोपभोगविमर्दः परिमलोऽभि. प्रेतः । तस्य लक्ष्मीः त कृतत्वात् । सती विद्यमाना परिमलशोभा यस्याः । ८८९। उरःप्रभृतिभ्यः कप् ।५।४।१५१।' सा त्वमपुंस्का अविद्यमानभर्तृका नासीति मे मतिः । पूर्ववत्कप् । किमिव सुदिवेवारविन्दिनी पद्मिनी । शोभनं दिवा नीहारायभावाद्दिवा दिवसं यस्याः । ८६०। सुप्रात-५।४।१२०।' इत्यादिना अच् । आपीतमधुका भृङ्गः आपीतं मधु यस्याः । '८९१। शेषाद्विभाषा ।।४।१५४।' इति कप् । यथेयं सत्परिमललक्ष्मीका तथा स्वमपीति ॥ २५४-मिथ्यैव श्रीः श्रियं मन्या, श्रीमन् मन्यो मृषा हरिः, ॥
साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः ७१ मिथ्यैवेत्यादि-श्रियः श्रियं रूपसम्पदं हरन्तीमभिभवन्तीं त्वां साक्षास्कृत्य प्रत्यक्षीकृत्य । विभाषा कृजीत्यनुवर्तमाने '७७५। साक्षात्प्रभृतीनि च ।।. ४७४।' इति गतिसंज्ञा । गतिसमासे ल्यबादेशः । अहमभिमन्ये किं मिथ्या श्रीः श्रियंमन्या अहमेव श्री न्येति मन्यमाना श्रीमिथ्या नैव श्रीः किन्तु त्वमेवेति । '२९९३। आत्ममाने खश-३।२।०३।। २५०५। दिवादिभ्यः श्यन् ।३।११६९।' । '२५९४। इच एकाचोऽम्प्रत्ययवञ्च ।।३।६८।' इत्यम्भावः । तस्यामः प्रत्ययत्वान्मलोपाभावः । '१९०। न विभक्तौ तुस्माः ।।३।४।' इति वचनात् । अचीतीयडादेशः । विबन्ता धातुत्वं न जहतीति विब्वचीत्यादिना श्रयतेरोणादिकः किम् । हरिश्चात्मानं श्रीमन्तं मन्यमानो मृषा न श्रीमानित्यहमभिमन्ये ॥ २५५-नौदकण्ठिष्यता ऽत्यर्थ, त्वामैक्षिष्यत चेत् स्मरः, ॥
खेलायन्ननिशं नापि सः कृत्य रतिं वसेत् , ॥७२॥ नोदेत्यादि-सरभार्या रतिः सापि रूपेण निकृष्टेति दर्शयति । चेत् यदि सरः त्वामैक्षिष्यत दृष्टवानभविष्यत् तदा अत्यर्थं नोदकण्ठिष्यत रति प्रति भृशमुस्कण्ठितो नाभविष्यत् । '६५२। ईश दर्शने' इति, २७३॥ कटि शोके' इति भौवादिकात् क्रियातिपत्तौ ल । नापि रति स्वभायों सजूःकृत्य सहायीकृत्य वसेत् , अपि तु परित्यजेत् । अत्र क्रियातिपत्तिर्न विवक्षिता किन्तु हेतुहेतुमद्रावः । नापि रति सजू कृत्य वसेत् यदि त्वामीक्षेतेति हेतुपदमन्यूय हेतुमद्भावदर्शनात् । र्यादिषु 'सजूः सहार्थः' इति वचनात् गतिसंज्ञा । खेलायन् अनिशं क्रीडन् सर्वदा । खेलाशब्दात् कण्डादित्वात् यक् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com