________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम पञ्चमः सर्गः -
- हृदयंगम - मूर्तिस् त्वं सुभगं भावुकं वनम् ॥ कुर्वाणा भीममप्येतद् वर्दा ऽभ्यैः केन हेतुना ॥ ६७॥
१०७
हृदयमित्यादि - - केन हेतुना इदं वनमभ्यैः अभिगतासि वद कथय । अभिपूर्वादिणो लङ् । मध्यमपुरुषैकवचनम् । '२२५४। आडजादीनाम् | ६ | ४|७२ ‘२६९। आटश्च । ६।१।९० |' इति वृद्धिः । हृदयं गच्छति या मूर्तिः शरीरमत्यक्तसौन्दर्यात् । '२९६४ | गमश्च | ३ |२| ४७|' इति खच् । सा एवंविधा मूर्तिर्यस्याः सा त्वं भीममप्येतद्वनं सुभगम्भावुकं सर्वस्यैवाप्रियं प्रियं कुर्वाणा । असुभगं भूत्वा सुभगं भवतीति '२९७४ | कर्तरि भुवः | ३ |२| ५७ |' इति खुकञ् ॥ २५१ - सुकृतं प्रियकारी त्वं कं हरस्युपतिष्ठसे, ॥
पुण्यः कृच् चाटुकारस् ते किङ्करः सुरतेषु कः ॥६८॥
सुकृतमित्यादि - सुकृतं पुण्यकारिणं शोभनं कृतवानिति '२९९९ | सुकर्म पाप - ३|१|८८ | ' इत्यादिना क्विप् । कं रहसि विजने त्वमुपतिष्ठसे उपश्लियसि । संगतकरणे तर प्रियकारी अनुकूलवर्तिनी सती । प्रियमनुकूलं करोतीति '२९६१ । क्षेम - प्रिय-मद्रेऽण् चं । ३।२।४४ |' इति अणू '४७० | टिड्ढाणञ् - 18 | १|१५|' इत्यादिना ङीप् । पुण्यकृत् कृतपुण्यः । तस्य पूर्ववत् क्विप् । चाटुकारः प्रियवाक्यकरः । ' २९३७ । न शब्दश्लोक - | ३ |२| २३ |' इत्यादिना टे प्रतिषिद्धेsa भवति । ईदृशस्ते किङ्करः दासः । ' २९३५। दिवा - विभा | ३ |२| २११' इति टः । किंयत्तद्बहुषु कृञोऽज्विधानमिति तत्स्त्रीविषये द्रष्टव्यम् । सुरतेषु शोभनरतेषु । ' ३०९० । नपुंसके भावे क्तः | ३ | ३ | ११४ |' | '२४२८| अनुदात्तो - |६|४| ३७|' इत्यादिनानुनासिकलोपः । अनेनोभयरुचिराख्याता ॥
२५२ - परि-पर्युदधे रूपम -यु-लोकाच् च दुर्लभम् ॥
भावत्कं दृष्टवत्स्वैतद॑स्मास्वधि सु - जीवितम् ॥ ६९॥
परीत्यादि - एतद्रूपं भावकं भवत्या इदमिति १३१९ । भवतष्ठक्छसौ |४|२| ११४ । ' इति ठक्छसौ । 'ठकुछ सोश्लोपसंख्यानम्' इति पुंवद्भावः । ‘१२२१| इसुसुक्कान्तारकः |७|३|५१ | दुर्लभं परिपर्युदधेः '५९६ | अपपरी वर्जने । |१|४|८८|' इति कर्मप्रवचनीयसंज्ञायां द्वितीयायां प्राप्तायां ५९८ । पञ्चभ्यपापरिभिः | २|२|१०|' इति पञ्चमी । '६६६। अप-परि- बहिरञ्चवः पञ्चम्या 1२1१।१२।' इति विभाषासमासश्च । असमासपक्षे '२१४१ | परेर्वर्जने || १ |५|' इति द्विर्वचनम् । उदधिं वर्जयित्वा चतुरुदधिमेखलायां भुवि दुर्लभमाद्युलोकाच स्वर्गलोकान्सं च यावत् दुर्लभम् । अत्रापि पूर्ववत्पञ्चमी । तादृशं दृष्टवत्स्वस्मासु अधि सुजीवितमस्मद्विषये आधिक्येन सुजीवितम् । अहो वा सुजीवितमिति अहोशब्दार्थे अधिशब्दो वर्तते ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com