________________
१०६ भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
क्रमेः ' २६३४ | नित्यं कौटिल्ये गतौ । ३।१।२३।' इति यङ् । ' २६४३ | नुगतः - १७१४/८५|' इत्यभ्यासस्य नुक् । '३२७९ । अः प्रत्ययात् |३|२|१०२|' इत्याकारः । '२३०८ । अतो लोपः | ६ | ४|४८|' | '२६३१ | यस्य हलः | ६ |४| ४९ |' टाप् । सा यस्यास्ति चंक्रमावान् । कुटिलगतिमानित्यर्थः । समागत्य ढौकित्वा । सीतामूचे । किमित्याह - सुखाभवेति अनुकूला भवेत्यर्थः । यदहं प्रार्थये तत्र प्रतिकूला न भवेति भावः । '२१३४। सुखप्रियादानुलोम्ये |५|४ | ६३ |' इति कृभ्वस्तियोगे डाच् ॥
युग्मम्
२४८ - सायंतनीं तिथिप्रण्यः पङ्कजानां दिवान्तनीम् ॥ कान्तिं कान्त्या सदान्तन्या हेपयन्ती शुचि - स्मिता.
सायमित्यादि - का त्वमिति वक्ष्यमाणेन संबन्धः । सायं दिनावसानं तत्र भवां कान्तिम् । यदा षोऽन्तकर्मणीत्येतस्मात् घन्प्रत्ययान्तः तदा ' १३९१ सायंचिरं - | ४ | ३ | २४|' इति टुटधुलो तुट् च मकारान्तत्वं च निपात्यते । यदा सायंशब्दो मकारान्तः तदाप्यव्ययत्वादेव प्रत्ययागमौ स्याताम् । कस्येत्यपेक्षायां तिथिप्रण्यः चन्द्रमसः पञ्चदश कलाः तासां वृद्धिहासाभ्यां पञ्चदश तिथीः प्रणयति प्रवर्तयति । '२९७५ । सत्सू द्विष ।३।२२६५।' इति क्विप् । '२२८७। उपसर्गादसमासे - |८|४|१४|' इति णत्वम् । '२७२ । एरनेकाचः - १६।४।८२ ।' इति यणादेशः । पङ्कजानां च कान्ति कीदृशीं । दिवातनीं दिवाभवाम् । कान्त्या त्वदीयया सदातन्या सदाभवया हेपयन्ती लज्जयन्ती । दिवातन्याः सायन्तन्याश्च सदाभवत्वात् । जिहेतेः '२५७० | भर्ति | ७ |२| ३६ |' इत्यादिना णौ पुकू । शुचिस्मिता शुभ्रहासा ॥
२४९- का त्वमेकाकिनी भीरु ! निरन्वय-जने वने, ॥
क्षुध्यन्तो ऽयेघसन् व्यालास् त्वाम-पालां कथं न वा.
का त्वमित्यादि - का त्वं देवी मानुषी राक्षसी वेति । एकाकिनी असहाया । '१९९८। एकादा किनिच्चासहाये | ५|३|५२ ।' इति आकिनिच् । भीरु इत्यामन्त्रणं भयप्रकृतित्वात् स्त्रीणाम् । निरन्वया निरनुगमा जना यस्मिन्वने यत्र न कथंचिन्मनुष्याणां सम्भवः । क्षुध्यन्तोऽपि बुभुक्षमाणा अपि । दिवादित्वात् श्यन् । व्याला हिंस्रा व्याघ्रादयः कथं वा त्वां नाघंसन् न भक्षितवन्तः । अदेः ‘२४२७। लुङ्सनोर्घस्ल | २|४|३७|' लुदित्वात् चलेरङ् । क्षुध्यन्तो नाघसन्निति पाठान्तरम् । तत्र कथं न वा अपरिचितानेवाघसन् इति योज्यम् । अपालां सतीं अविद्यमानः पालो यस्या इति । '१७२६ । पाल रक्षणे' इति चौरादिकः । पालयतीति पालः । पचाद्यच् । यदा प्रयोजकविवक्षा तदा पातेर्लुगागमो णौ वक्तव्य इति लुक् । ततः पचाद्यच् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com