________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- १०५ भस्यास्तीति शिखी परिव्राजकः । बाह्वादिस्वादिनिः । जंजपूकः पापाशयत्वात् गर्हितं जपतीति । २६३५। लुप-सद-३।१२।' इति यङ् । '२६३८१ जप-जम -७४।०६।' इत्यभ्यासस्य नुक् । '३१४६। यज-जप-दशां यङः ।३।२।१६६।' इत्यूकः । अक्षमालावान् अक्षसूत्रयुक्तः । संसर्गे मतुप् । धारयतीति धारयः । '२९००। अनुपसर्गात्-३।११३८॥ इति शः । कस्य मृदलाबुनः । 'नजि लम्बेनेलोपश्च' इत्यौणादिक उकारे प्रत्यये अलाबूः । तस्य विकारः फलमिति १५१९॥ ओरम् ।।३।१३९।' । तस्य फले लुक् । नपुंसकहस्वत्वम् । मृत्पूर्णमलावु इति मध्यमपदलोपी सः । कृस्प्रयोगे कर्मणि षष्ठी। '३२०। इकोऽचि विभक्तौ ।।। ७३।' इति नुम् ॥ २४५-कमण्डलु-कपालेन शिरसा च मृजावता ॥
संवस्त्रय लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्डवान् ६२ कमेत्यादि-कमण्डलुना कपालेन च ९१०। जातिरप्राणिनाम् ।२।४।६।' इति द्वन्द्वैकवद्भावः । मृजावता निर्मलेन शिरसा च उपलक्षित इत्थम्भूते तृतीया । संवख्य परिधाय । 'वस्त्रात्समाच्छादने' इति २६७७। मुण्डमिश्र-३१२१॥' इत्यादिना णिच् । लाक्षिके वस्त्रे । लाक्षया रक्ते । १२०३। लाक्षा. रोचनात्-४।२।२।' इत्यादिना ठकू । मात्राः कमण्डल्वादिकं सम्भाण्ड्य समा. चित्य राशीकृत्येत्यर्थः । 'भाण्डात् समाचयने' इति २६७६। पुच्छ-भाण्ड-। १।२०।' इत्यादिना णिङ् । दण्डवान् गृहीतत्रिदण्डः । संसर्गे मतुप् ॥ २४६-अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम् ॥
वदन् बढङ्गुलि-स्फोटं भू-क्षेपं च विलोकयन् ॥६॥ अधीत्यादि-मा कुरुत कर्माणि शान्तिर्वः श्रेयसीत्येवं घोपयन्ति ये ते मस्करिणः परिव्राजकाः । तेषां व्रतमकृच्छ्रमसौ धारयन् । '१०६८। मस्कर-मस्करिणौ-1६।१।१५४।' इति परिव्राजके सुद। आत्मविदां योगिनाम् । विद्यामु. पनिषदमधीयन् जपन् '३११०। इधार्योः-३।२।१३०।' इतीडो धारेश्च अकृ. च्छ्रवति कर्तरि शतृप्रत्ययः। अन्तरा बहु प्रभूतं वदन् । अङ्गुलिस्फोटं पुनः पुनः स्कोटिकान्दत्वा भ्रूक्षेपं च विलोकयन् ध्रुवावुरिक्षप्योरिक्षप्य विलोकयन् । उभयत्रापि '३३७६। स्वाङ्गेऽध्रुवे ॥३॥४॥५४।' इति णमुल ॥ २४७-संदिदर्शयिषुः साम निजुहूषुः क्षपाटन्ताम् ॥
चंक्रमावान् समागत्य सीतामूचे-'सुखाभव.' ॥६४॥ संदीत्यादि-इह भयं मा भूदिति साम सान्त्वं संदिदर्शयिषुः संदर्शवि. तुमिच्छुः । वदन् बङ्गुलिस्फोटमिति योज्यम् । दृशेय॑न्तसन्नन्तर रूपम् । क्षपाटतां राक्षसस्वं निजुषुर्निहोतुमिच्छुः । धारयन्मस्करिव्रतमिति योज्यम् ॥ होतेः '२६१४॥ अज्झनगमां सनि ।६।४।१६।' इति दीर्घः। कुटिलं क्रमणं चंकमा। Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com