________________
१०४ भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
ता २२२० स्मोत्तरे लङ् च ३।३।१७६।' इति चकारात् लुङ् । सिचि वृद्धिः । त्वया अद्यैव कृतार्थः पूर्णमनोरथः पतिर्द्रक्ष्यते । दृशेः कर्मणि लट् ॥
२४२-'यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च, ॥
इच्छुः कामयितुं त्वं माम्', इत्यसौ जगदे तया.॥५९॥ याया इत्यादि-तदन्वेषणाय यायास्त्वमिति कामोऽमिलापः । २०१०। कामप्रवेदनेऽकञ्चिति ॥३।३।१५३।' इत्यकञ्चित्युपपदे लिङ् । न च गन्तुमुत्सहसे । '३१७७। शक-पृष-३।४।७५।' इति तुमुन् । तस्मानूनं मां कामयितुमिच्छुः एषणशीलः । ३१७६। समानकर्तृकेषु तुमुन् ।३।३।१५८' । ३१४९। विन्दुरिच्छुः ।३।२।१६९।' इति निपातनात्साधुः । इत्येवमसौ लक्ष्मणो जगदे गदितस्तया सीतया ॥ २४३-मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः ॥
निरगात् 'शत्रु-हस्तं त्वं यास्यसीति शपन् वशी.॥६०॥ मृषोद्यमित्यादि-मां कामयितुमिच्छुरित्येतन्मृषोद्यम् मृषावादम् । २८. ६५। राजसूय-३।१४।' इत्यादिना भावे क्यप् । यजादित्वात् सम्प्रसारणम् । प्रवदन्तीं तां सीताम् । रघूत्तमो लक्ष्मणः । शपन् शत्रुहस्तं त्वं यास्यसीति शापं प्रयच्छन् । भौवादिकोऽत्र शपिन देवादिकः । निरगात् निर्गतः । तस्मादुटजादित्यर्थात् । कथं मृषोद्यमित्याह-वशी वशनं वशः इन्द्रियसंयमनम् । 'वशिरण्योरुपसंख्यानम्' इत्यप् । स यस्यास्ति स वशी जितेन्द्रियः । अत एव सत्यवद्यः अवितथवादी । शत्रुहस्तं यास्यसीति सत्यं वदतीति '२८४१॥ कृत्य-ल्युटो बहु. लम् ।।३।११३।' इति कर्तरि यत् । '२८५४। वदः सुपि क्यप् च ।३।११०६।' इति चकाराद्यत् । भावे वा यतं विधायाच अर्शमादित्वात् ॥
कालापकम् (४)२४४-गते तस्मिन् , जल-शुचिः
शुद्ध-दन रावणः शिखी ॥ जञ्जपूको ऽक्ष-माला-वान्
धारयो मृदलाबुनः ॥ ६१॥ गत इत्यादि-तस्मिन् लक्ष्मणे गते सति रावणः सीतामूच इति वक्ष्यमागेन सम्बन्धः । कीदृशः । जलशुचिः सात इत्यर्थः । शुद्धदन् निर्मलदशनः शुद्धा दन्ता यस्य । '८८३अग्रान्त-1५।१४५।' इत्यादिना दन्तस्य ददादेशः। शिखा
१-(१४८ ) श्लोकोकं टीकनं प्रेक्ष्यम्. Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com