________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- १०३ २३९-'आप्यान-स्कन्ध-कण्ठाऽसं
रुषितं सहितुं रणे ॥ प्रोणुवन्तं दिशो बाणैः
काकुत्स्थं भीरु! कः क्षमः ॥ ५६ ॥ आप्येत्यादि-१०३३। प्यै- वृद्धौ ।' अस्मादापर्वात् '३०१७। संयोगादेरातो धातोर्यण्वतः ।८।२।४३॥' इति निष्ठातो नः । ओ.प्यायी वृद्धावित्यस्य वा रूपम् । ३०१९। ओदितश्च ८।२।४५।' इति निष्ठानत्वम् । पीभावस्तु आङ्पूर्वस्य त्वन्धुधसोरिति वचनात् इह न भवति आप्यानस्कन्ध इति । आप्यानं स्थूलं स्कन्धकण्ठांसं यस्य काकुत्स्थस्य । बाहुशिखरमंसः तस्य पश्चिमो भागः स्कन्धः तं । रुषितं क्रुद्धम् । रणे संग्रामे सहितुं हे भीरु कातरे ! कः क्षमः शक्तः । अपि तु न कोऽपीत्यर्थः । क्षमेः शनोत्यर्थत्वात् तदुपपदे ३१७७। शक-पृष३।४।६५।' इत्यादिना तुमुन् । '२३४०। तीष-सह-७॥२॥४८॥' इत्यादिना वेद । ककुत्स्थस्थापत्यं काकुत्स्थः । १११५१ शिवादिभ्योऽण् ।।१।११२।' कमान्न क्षम इत्याह-प्रोणुवन्तं दिशो बाणैः । यतः सर्वाः दिशः बाणैः छादयन्तम् । जर्णोतेः शतरि उवङ् । क्षमत इति क्षमः । पचाद्यच् ॥ २४०-देहं बिभ्रक्षुर-स्त्राऽग्नौ मृगः प्राणैर् दिदेविषन् ।
ज्या-घुष्ट-कठिनाऽङ्गुष्ठं रामायान् मुमूर्षया. ॥५॥ देहमित्यादि-एष मृगो राममायात् आगतवान् । यातेर्लङि रूपम् । किमर्थं देहं शरीरं अस्त्राग्नौ अस्त्रे भग्नाविव । विभ्रक्षुः भ्रष्टुमिच्छुः । भ्रस्जेः '२६१८॥ सनीवन्तर्ध-७।२।४९।' इत्यत्रेडभावपक्षे ३८०। स्कोः संयोगाद्यो:1४।२।२९।' इत्यनेन सलोपे षत्वकुत्वयोश्च रूपम् । प्राणैर्दिदेविषन् क्रीडितुमिच्छन् । '५६२। दिवः कर्म च ।।४।४३।' इति चकारात् करणसंज्ञा । '२६१८॥ सनीवन्त-७।२।४९।' इतीपक्षे रूपम् । ज्यया गुणेन घुष्टौ निघृष्टौ अत एव कठिनौ अङ्गुष्ठौ सव्यापसव्यकर्षणाद्यस्य । ३०६३। घुषिरविशब्दने ।७।२।२३।' इति निष्ठायामनिट् । मुमूर्षया मर्तुमिच्छया । मृङः सनि २४९४॥ उदोष्ठ्यपू. र्वस्य ।७।१११०२।' इत्युत्वम् । '३२७९। अ प्रत्ययात् ।३।३।१०२।। २४१-शत्रून् भीषयमाणं त राम विस्मापयंत कः,॥
मा स्म भैषीस् , त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः.' शत्रूनित्यादि-तं रामं शत्रून् भीषयमाणं भीतान् कुर्वाणम् । २५९५। मियो हेतुभये षुक् ।७।३।४०।। २५९४॥ भी सम्योहेतुभये ।।३।६८।' इति तङ् । विस्मापयेत कः क्षुभितचित्तं कः कुर्यात् । नैवेत्यर्थः । २५९६॥ नित्यं मयतेः ३६।११५७।' इति णावात्वम् । '२५७०। अर्तिही-७।३॥३६॥' इत्यादिना पुक् । निमन्त्रणे नियोगे वा लिङ् । पूर्ववदात्मनेपदम् । तस्मान्मा स भैषीः मा भूर्भीः
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com