________________
.१०२ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, २३६-श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी ॥
मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत्. ॥५३॥ श्रुत्वेत्यादि-विस्फूर्जथुप्रख्यं वज्रनिर्घोषतुल्यम् । '२४३॥ टु-ओ स्फूर्जा वज्र-निर्घोष' । ३२६७। ट्वितोऽथुच् ।३।३।०९।' निनादं शब्दम् । '३२४१। नौ गद-नद-३।३।६।' इति विकल्पनात् पक्षे घञ् । श्रुत्वा मैथिली कष्टश्रितं कृच्छ्रप्राप्तं रामम् । '६८६। द्वितीया श्रित-२॥१॥२४॥' इत्यादिना सः । मत्वा बुवा । कृच्छ्रप्राप्तेन रामेण मृतमिति परिदेविनी परिदेवनशीला शङ्कमाना। '३१२२॥ संपृचानुरुध-३।२।१४२॥' इत्यादिना घिनुण्। सौमित्रिं गन्तुमैजिहत् । ईहां कारितवती । ईहेयन्तात् लुङि द्विवचनेऽचीति स्थानिवद्भावादजादेर्द्वितीयस्येति हिशब्दस्य द्विवचनम् । अभ्यासकार्य च ॥
२३७-'एष प्रावृषि-जाऽम्भो-द
नादी भ्राता विरौति ते,॥ ज्ञातेयं कुरु सौमित्रे!
भयात् त्रायस्व राघवम्.' ॥ ५४॥ एष इत्यादि-एष ते भ्राता रौति । '२४४३। उतो वृद्धिः-७।३।०९।' इत्यौकारः। प्रावृषि जातः प्रावृषिजः । ३००७। सप्तम्यां जनेर्डः ।३।२।९७।' '९७३। प्रावृद-।६।३।१५।' इत्यादिना सप्तम्या अलुक् । स चाम्भोदश्चेति विशेष. णमिति सः । तद्वनदतीति २९८९। कर्तर्युपमाने ।३।२१७९' इति णिनिः । तस्मात् सौमित्रे! ज्ञातेयं ज्ञातिभावं तत्कर्म वा कुरु । १७९२। कपि-ज्ञात्यो ।५।१।१२७।' तेन भयात्रायस्व राघवम् ॥ २३८-'राम-संघुषितं नैतन् , मृगस्यैव विवञ्चिषोः ॥
राम-स्वनित-सङ्काशः स्वान', इत्यवदत् स ताम्. ५५ रामेत्यादि-रामसंघुषितं रामशब्दितमेतन भवति । '१८५९। घुषिरविशब्दार्थः। तस्य निष्ठायां '३०६९। रुष्यमत्वर-1७।२।२८।' इत्यादिना विकल्पेनेट् । मृगस्य विवञ्चिषोः छलयितुमिच्छोः । १९८ । वजु गतौ ।' भौवादिकः । तस्यानेकार्थत्वात् । प्रलम्भन इति चौरादिकस्याण्यन्तस्य वा प्रयोगः । येषामनित्यण्यन्ताश्चरादय इति दर्शनं तेषां मतेनात्रापि सिध्यति । एष स्वानो ध्वानः । ३२३९। स्वन-हसोर्वा ३३॥६॥' इति पक्षे धम् । कीदृशः । रामस्वनितसङ्काशः रामशब्दानुकारीति । तां सीतां एवमवदत् उक्तवान् । स लक्ष्मणः॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com