________________
तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः -
१०१
अज्झनगमां सनि । ६।४।१६ । ' इति दीर्घः । ' २२९४ । उदोष्ठयपूर्वस्य ।७।१।१०२ । ' इत्युत्वम् । रपरत्वम् । '४३३ | वरुपधाया दीर्घ इकः | ८|२|७६ | द्विर्वचनम् | '२१ १ | इण्कोः | ८३५७ |' इति षत्वम् । रेफस्येण्ग्रहणेन ग्रहणाद्दन्त्योष्ठयोऽपि वकार ओष्ठयग्रहणेन गृह्यते ॥
२३३ - योग-क्षेम - करं कृत्वा सीताया लक्ष्मणं ततः ॥
मृगस्यनुपदी रामो जगाम गज-विक्रमः ॥ ५० ॥
.
योगेत्यादि - ततो दुधूषानन्तरं रामो जगाम ! योगक्षेमौ शरीरस्थितिपालने करोतीति '२९३४ | कृञो हेतु |३|२| २०|' इत्यादिना हेतौ दः । ग्रहणवता तदन्तविधेरभावात् '२९६१ । क्षेमप्रियमद्रेऽण् च | ३ | २|४४ |' इत्यण्खचौ न भवतः । सीतायाः स्थितिपालन हेतुभूतं लक्ष्मणं कृत्वा रामः मृगस्यानुपदी अम्बेटा' १८९० | अनुपद्यन्वेष्टा - | ५|२|१०|' इति निपातनात् साधुः । गजविक्रमः । गजगमनमिव गमनं यस्येत्यर्थः ॥
२३४ - स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं कचित् ॥ वीक्षमाणो मृगं रामशू चित्र - वृत्तिं विसिष्मिये ॥ ५१ ॥
·
स्थायमित्यादि - मृगं चित्रवृत्तिमद्भुतशरीरचेष्टं वीक्षमाणो रामो विसिष्मिये विस्मितः । ष्मिङो ङित्वादात्मनेपदम् । षोपदेशत्वाच्चाभ्यासेणः परस्य सस्य षः । चित्रवृत्तितां दर्शयन्नाह - स्थायं स्थायं स्थित्वा स्थित्वा । क्वचित् प्रदेशे यान्तं क्रान्त्वा क्रान्त्वा । क्वचित्प्रदेशे उत्प्लुत्योत्लुत्य स्थितम् । अभीक्ष्ण्ये मुलि क्वाणमुलौ द्विर्वचनं च ॥
२३५ - चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-लवम् ॥
शब्दायमानमव्यात्सीत् भयदं क्षणदाचरम्. ॥५२॥
चिरमित्यादि - रामः क्षणदाचरं मारीचमव्यात्सीत् विद्धवान् । व्यधेलु - ङि हलन्तलक्षणा वृद्धिः । मर्माविद्रामः मर्माणि विध्यतीति क्विप् । '१०३७। महि वृति | ६ | ३ | ११६ । ' इत्यादिना पूर्वपदस्य दीर्घत्वम् । चिरं क्लिशित्वा महान्तं कालमायस्य । अत्यन्तसंयोगे द्वितीया । '३०४९ | किशः क्वानिष्ठयोः | ७|२|५० | ' इति विकल्पेनेट् । तत्र ' २६१७। रलो व्युपधात् ।१२।२६।' इति किश्वविकरूपे '३३२६। मृड - मृद - |१२|७|' इत्यादिना किश्वम् । विलुमितष्ठवं व्याकुलितगमनम् | '३०४८। लुभो विमोहने | ७| २१५४ |' इतीट् । विमोहनं व्याकुली करणम् । शब्दायमानं शब्दं कुर्वाणम् । २६७३ | शब्द चैर- 1३|१|१७|' इति क्यक् । भयदं निशाचरम् । शब्दविशेषणं वा ॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com