________________
१०० भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, भवामि ते। अमित्रस्यामिमुखमभ्यमित्र्यमाभिमुख्येऽव्ययीभावः । अभ्यमित्रमलंगामीत्यसिन्नर्थे १८१८। अभ्यमित्राच्छ च ।५।२।१७।' इति चकाराद्यत्खौ चेति यत् । त्वदमित्रामिमुखं गच्छामीत्यर्थः । अनुनयन् अनुकूलयन् । किमर्थं जिजीविषुः जीवितुमिच्छुः ॥ २३०-हरामि राम-सौमित्री मृगो भूत्वा मृग-धुवौ, ॥
उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु.॥४७॥ हरेत्यादि-अहं मृगो भूत्वा रामसौमित्री हरामि । देशान्तरं प्रापयामि । आखेटकाभिरतत्वात् । यदाह मृगधुवौ मृगैर्दीव्यत इति विप् । २५६१। च्छोः शूडनुनासिके च । ६।४।१९।' इति चकारात् कौ च ऊन यणादेशः । उवङ । मृगद्युताविति पाठान्तरम् । तत्र 'धु अभिगमने' मृगान् द्यौति अमिगच्छतीति विप् । त्वं च यथेष्टं यथारुचि । तमुद्योगं संतनु विस्तारं कुर्वित्यर्थः । तनोते. लोटि २३३४॥ उतश्च-६।।१०६।' इति हेर्लुक् । अभ्यमित्रीणः अमित्राभिमुखमलंगामी। १८१८। अभ्यमित्राच्छ च ।५।२।१॥'इति चकाराद्यखौ चेति खः॥ २३१-ततश चित्रीयमाणो ऽसौ हेम-रत्न-मयो मृगः ॥
यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्. ॥४८॥ तत इत्यादि-उक्तानन्तरमसौ मारीचो मायामृगीभूतः सन् हेमरत्नमयः रत्नं च हेम चेति विगृह्य । १५२३। मयडैतयोर्भाषायाम्-४।३।१४३॥' इति विकारे मयट् । निर्मलत्वात् । सीताया अग्रतो यथामुखीनः प्रतिबिम्बाश्रय इव भूत्वा पुप्लुवे भ्रमति स । इवशब्दलोपो द्रष्टव्यः । १८०७॥ यथामुखसंमुखस्य दर्शनः खः ।५।२।६।' बहु लोभयन् सुष्ट स्पृहां जनयन् । यतश्चित्रीयमाणः आश्चर्य भवन् । हेमरत्नमयत्वात् । '२६७ नमोवरिव-३।१९।' इत्यादिना क्यच् । 'चित्र- आश्चर्ये । कारस्थात्मनेपदार्थत्वात् शानच् । अवयवकृतं लिङ्ग समुदायस्य भवतीति ॥ २३२-तेना ऽदुयूषयद् रामं मृगेण मृग-लोचना ॥
मैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्. ॥४९॥ तेनेत्यादि-तेन मृगेण मैथिली सीता राममदुबूषयत् क्रीडितुमिच्छन्तं प्रयुकवती गृह्यतामयमिति । हवन्तस्य दिवेः '२६१८। सनीवन्त-७।२।४९।' इत्या. दिना यदा नेट् तदा २५६॥ च्छोः शूर-६।४।१९।' द्विर्वचनम् । तस्मात सनन्तण्यन्तात् लङि रूपम् । मृगलोचना मृगस्य लोचने इव लोचने यस्याः । मध्यमपदलोपी सः । विपुलोरस्कं विस्तीर्णवक्षस्थलम् । '४८९। उसप्रभृतिभ्यः कम् ।५।।१५।। किमर्थमदुघूषयत् मृगाजिनं मृगचर्म प्रावुर्घः प्रावरीतुमिच्छुः । प्रापर्वस '२६२५। इद सनि वा ॥२॥४१॥' इत्यनिदपक्षे '२६१॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com