________________
तथा लक्ष्य-रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः -
२२६ - वन - तापस के वीरौ विपक्षे गलिताssदरौ ॥ किं चित्रं यदि साऽवज्ञौ मातुः खर-दूषणी ॥४३॥
वनेत्यादि - वने तापसो वनतापसः । कुत्सायां कन् । तस्मिन् वनतापसके रामे सावज्ञत्वाद्गलितादरौ विपक्षे किमयं करिष्यतीत्यश्रद्धयैव योधितवन्तौ खरदूषणौ वीरौ यदि मम्रतुः मृतौ को दोषः किं चित्रम् । '२५३८ । म्रियतेर्लुलिङोश्व | १|३|६१।' इति नियमात् लिट्यात्मनेपदं न भवति ॥ २२७-त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि ॥ गुणांश चोsपहुषेऽस्माकं स्तौषि शत्रूंश् च नः सदा ॥
"
त्वं चेत्यादि - हे दुर्बुद्धे ! त्वं पुनः भीरुश्च भवसि नित्यं शरणकाम्यसि । आत्मनोऽनिशं शरणमिच्छसि । आत्मेच्छायां काम्यच् । अस्माकं च सतो गुणानहुषे अपनयसि । '११५६ | हुङ् अपनयने' आदादिकः । ङित्वात्तङ् । शत्रूश्च 'नोऽस्माकं स्तौषि । स्तोतेः ' २४४३ । उतो वृद्धिर्लुकि हलि |७|३|८९|' | २२८ - शीर्षच्छेद्यम॑तोऽहं त्वा करोमि क्षिति-वर्धनम्, ॥
कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ. ॥४५॥
९९
I
शीर्षेत्यादि - यत एवंविधस्त्वं दुष्टः अतोऽहम् । '४०७ । स्वा- मौ द्वितीयायाः | ८ |१| २३ | ' इत्याष्टमिकलक्षणेन त्वादेशः । शीर्षच्छेद्यं शीर्षच्छेदार्हम् । ११७३०| शीर्षच्छेदाद्यत् | ५|१|६५ | क्षितिवर्धनं करोमि । शिरश्छित्त्वा व्यापा. दयामीत्यर्थः । अथवा कृत्यं करणीयम् । '२८७१ | विभाषा कृ- वृषोः | ३|१|१२० ।' इति क्यप् । कारयिष्यामि । '५४१ । हृ-क्रो: - १/४/५ ३ | ' इति द्विकर्मकता | विजिघृक्षुः विग्रहीतुमिच्छुः । ' २६१० | सनि ग्रह- गुहोश्व |७|२|१२|' इतीट्प्रतिषेधः । ‘२६०९। रुद- विद - |१|२८|' इत्यादिना सनः कित्त्वे ' २४१२ । ग्रहिज्या - १६।१।१६ । ' इत्यादिना संप्रसारणम् । '३२४ | हो ढः | ८|२|३१|' | '३२६॥ एकाचो बशो भष - | ८|२|३७|' | '२९५ | षढोः कः सि | ८ |२| ४१ | वनौकसौ रामलक्ष्मणौ । वनमोको गृहं ययोः । '६२७ । न लोक - | २/३/६९ |' इति कर्मणि षष्ठयाः प्रतिषेधः ॥
२२९-तमु॑द्यत-निशाता॒ऽसि॑ प्रत्युवाच जिजीविषुः ॥
मारीचो ऽनुनयंसू त्रासाद् 'अभ्यमित्रयो भवामि ते ॥ ४६ ॥
तमित्यादि - तं रावणं एवमुक्तवन्तम् । निशात इति '३०७५ | शाच्छोरन्यतरस्याम् |७|४|४१ |' इनीत्वाभावपक्षे रूपम् । उद्यत उत्थापितः निशातस्तीक्ष्णोऽसिर्येन तं मारीचस्वासात् प्रत्युवाच वचनमुक्तवान् | अभ्यमित्रयो
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com