________________
तथा लक्ष्य-रूपे कथानके राम प्रवासो नाम पञ्चमः सर्गः- ११५ २८२-अहमन्त-करो नूनं ध्वान्तस्यैव दिवा-करः॥
तव राक्षस! रामस्य नेयः कर्म-करोपमः ॥९९॥ अहमित्यादि हे राक्षस ! अहं तव नूनमवश्यमन्तकरः विनाशयिता। कीदृशः । रामस्य नेयो वश्यः । '२८४२। अचो यत् ।३।१।९७।' कर्मकरोपमः भृतकतुल्यः । २९३६। कर्मणि भृतौ ।३।२।२२।' इति टः । ध्वान्तस्येव दिवा. करः । यथान्धकारस्यान्तको दिवाकरः सूर्यः तथा । अन्तकरदिवाकरौ २९३५दिवा-विभा-३।२।२१॥' इति टप्रत्ययान्तौ । एवमुक्त्वा खं पपातेति सम्बन्धः ॥ २८३-सतामरुष-करं पक्षी वैर-कारं नराऽशिनम् ॥
हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम्.॥१०॥ सतामित्यादि-एवमुक्त्वा असौ जटायुः पक्षी खमाकाशं पपात पतितः । किमर्थ नराशिनं राक्षसं हन्तुं हनिष्यामीति । कीदृशं राक्षसम् । सतामरुष्करं धर्मे स्थितानां पीडाकरम् । अरुःशब्दः पीडोपलक्षणपरः । '२९३५। दिवा-वि. भा-३।२।२१।' इति टः । वैरकारं वैरकरणशीलम् । कलहकारः पक्षी कलहयि. तुमनुकूलः । अनयोः '२९३७। न शब्द-श्लोक-३।२।२३।' इति टे प्रतिषिद्धे. ऽणेव भवति । कर्मण्यणः प्राप्तिरस्तीति टाधिकार उदाहृतः। कियत्खं पपात । यावति दूरे शब्दपातस्तावत्खमिति ॥
॥ टाधिकारः समाप्तः॥
अतः परं प्रकीर्णकाः। इतः प्रकीर्णकश्लोकानाह२८४-धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ ॥
मांस-शोणित-संदर्श तुण्ड-घातमयुध्यत. ॥ १०१॥ धुन्वन्नित्यादि-असौ पक्षी अयुध्यत युध्यते स्म । युधेवादिकस्य लङि रूपम् । तुण्डघातमिति क्रियाविशेषणम् । तुण्डेन चञ्चवा घातो हननं यस्मिन् युद्ध इति । '३४५८॥ करणे हनः । ३।४।३७।' इति न णमुल ३३६७। कषादिषु यथाविध्यनुप्रयोगः ।३।४१४६।' इति वचनात् अहिंसार्थत्वाच्च तदारम्भस्य यथा पादघातं भूमि हन्तीति । '३३६८। हिंसार्थानां च समानकर्मकाणाम् ।३।४. ४८' इत्यनेनापि न भवति समानकर्मकताभावात् । अकर्मकत्वाद्युधेः । तेन भावे घञ् । धुन्वन् कम्पयन् खे आकाशे पक्षयोर्वितानम् । सर्वपथीनं सर्वः पन्था इति '७२७। पूर्वकाल-२।१।४९।' इत्यादिना सः । ९४०। अक्-पू:५।४।७४।' इति समासान्तोऽकारः। सर्वपथान् व्यामोतीति १८०८। तत्सर्वादेः५।२७।' इत्यादिना खः । मांसशोणितसन्दर्श कारून मांसं शोणितं च दृष्ट्वा । '३३५०। कर्मणि दृशि-विदोः साकल्ये ।३।४।२९।' इति णमुल । '७४३॥ भमै
वाव्ययेन ।२।२।२०।' इति सः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com