________________
९६ भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, '२३३१॥ सल्लिटोर्जेः ३६५७' इति कुत्वम् । सार्वलौकक सर्वलोके विदितम् । १७१०। लोक-सर्वलोकाभ्यां ठन् ।५।१।१४।' । '१४३८ अनुशतिकादि-७।३। २०' इत्युक्तत्वादुभयपदवृद्धिः । सार्वलौकिक इति पाठान्तरम् । अत्र राम इति योज्यम् ॥ २१७-यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम् , ॥
शूरंन्मन्यो रणाच चाऽहं निरस्तः सिंह-नर्दिना. ३४ यमेत्यादि-तस्य रामस्य विक्रमं ताडका वेत्ति ज्ञातवती । २७८९। वर्तमानसामीप्ये-३।३।१३१॥' इति भूते लट् । कीदृशी । यमास्यदृश्वरी । तच्छरताडिता यममुखं दृष्टवती मृतेत्यर्थः । ३००४॥ दृशेः कनिए ।३।२।९४।' '४५७। धमो र च ॥१॥' इति डीबेफौ । अहमपि शूरम्मन्यः शूरमात्मानं मन्यमानः '२९९३। आत्ममाने खश्च ।३।२।८३।' सिंहनर्दिना रामेण सिंह इव नर्दतीति २९८९। कर्तर्युपमाने-३।२७९।' इति णिनिः । रणानिरस्तः बहिकृत इत्यर्थः ॥ २१८-न त्वं तेना ऽन्वभाविष्ठा,
ना अन्वभावि त्वया ऽप्यसौ, ॥ अनुभूतो मया चा ऽसौ,
तेन चा ऽन्वभविष्यहम् , ॥ ३५ ॥ न त्वमित्यादि-तेन रामेण त्वं नान्वभाविष्ठाः । त्वमनेन नानुभूतः । कर्मणि लुङ् । थासि २७५७। स्य-सिच्-६४।६।' इत्यादिना चिण्वदिद ष्टुत्वम् । नान्वभावि त्वयाऽप्यसौ नानुभूतः । येनैवमुच्यते । अत्र २७५८। चिण् भाव-कर्मणोः ।३।१।६६।' इति चिण् । अनुभूतो मया चासौ । चशब्दः पुनरित्यर्थे । मया पुनरसावनुभूतः न शक्यो जेतुमिति । तेन रामेण चान्वभविष्यहमनुभूतोऽहम् । तेन सह योद्धुमक्षम इति । अत्र चिण्वद्भावो न कृतः किन्तु लुङि उत्तमपुरुषैकवचने वलादिलक्षण इट् । तेन वृद्ध्यभावात् गुण एवेति ॥ २१९-अध्यङ् शस्त्र-भृतां रामो,
न्यञ्चस् तं प्राप्य मद्-विधाः, ॥ स कन्या-शुल्कमभन
मिथिलायां मखे धनुः॥ ३६ ॥ अध्यजित्यादि-शस्त्रभृतां मध्ये रामोऽध्यङ् अधिकः । अध्यञ्चत्याधिक्येन वर्तत इति '३७३। ऋत्विग्-३।२।५९।' इत्यादिना क्विन् तस्मिन् लुले 'अनुनासिकलोपे '३६॥ उगिदचां-७।११७०।' इति नुम् । तस्यानुस्वारपरसवर्णत्वे कृते च हल्ड्यादिसंयोगान्तलोपौ । नकारस्य ३७७ क्विन्प्रत्ययस्य कुः ।।२।१२।' इति कुत्वेन डकारः । तं तादृशं प्राप्य मद्विधा न्यञ्चो हीनाः । निशब्दोऽत्रायो Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com