________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ९५ २१३-उत्पत्य खं दश-ग्रीवो मनोन्यायी शिताऽस्त्र-भृत् ।
समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे.॥३०॥ उत्पत्येत्यादि-उक्त्वैवं खमाकाशमुत्पत्य मारीचं प्रति चक्रमे । यत्र मारीचो राक्षसस्तन गत इत्यर्थः । २७१६। अनुपसर्गाद्वा ।।३।४३।' इति क्रमेस्तङ् । मनोवदाशु यातुं शीलमस्येति । २९४९। कर्तर्युपमाने ।३।२६७९।' इति णिनिः । शितास्त्रभृत् गृहीततीक्ष्णचन्द्रहासः । समुद्रस्य सविधे समीपे आवासो यस्य मारीचस्य । सह विधेन सविधमिति व्युत्पत्तिमानं शब्दस्तत्समीपवाची॥ २१४-सम्पत्य तत्-सनीडेऽसौ तं वृत्तान्तमशिश्रवत् , ॥
त्रस्तुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः. ३१ सम्पत्येत्यादि-असौ दशग्रीवः तत्सनीडे मारीचस्य समीपे । अत्रापि सह नीडेनेति व्युत्पत्तिमात्रम् । समेत्य यात्वा । तं वृत्तान्तम् शूर्पणखाकथितमशिश्रवत् श्रावितवान् । शृणोतेर्ण्यन्तस्य लुङि रूपम् । तेन मारीचेन श्रुतार्थन त्रस्नुना सनशीलेन दशाननः अगादि उक्तः । कर्मणि लुङ् ॥ २१५-'अन्तर्धत्स्व रघु-व्याघ्रात् तस्मात् त्वं राक्षसेश्वर!, ॥
यो रणे दुरुपस्थानो हस्त-रोधं दधद् धनुः, ॥ ३२॥ अन्तरित्यादि-हे राक्षसेश्वर ! त्वं तस्मादधुव्याघ्रादन्तर्धत्स्व अन्तर्हितो भव व्यवहितो भवेति यावत् । दधातेर्लोटि '२४८३। नाभ्यस्तयोः-६।४।११२।' इत्याकारलोपः । अभ्यासस्य २५० । दधस्तथोश्च ।।२।३८।' इति भष्भावः । '५९१॥ अन्तधौं येना- ०२८' इत्यपादानसंज्ञा । यस्मात् स रामः रणे दुरु पस्थानः दुःखेन उपस्थीयते उपगम्यत इति । आतो युच् । यतो हस्तरोधं दधद्धनुः हस्तेन रुडा सदैव यो धनुर्धत्ते स कथं दुरुपस्थानो न भवति । हस्तशब्दे तृतीयान्त उपपदे '३३७०। सप्तम्यां चोपपीड-रुधः-कर्षः ।३।४।४९।' इति णमुल । चकारेण तृतीयायाः समुञ्चितत्वात् । अत्र '७८४। तृतीयाप्रभृतीन्यन्यतरस्याम् ।२२।२१॥' इति सः ॥
तदेव दुरुपस्थानत्वं स्फुटयनाह२१६-भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत् , ॥
जिगाय तस्य हन्तारं स रामः सार्वलौकिकम् ॥३३॥ भवेत्यादि-यः कार्तवीर्यः कृतवीर्यस्यापत्यं सहस्रबाहुः भवन्तं हीनसन्धिमचीकरत् । हीनेन दुर्बलेन यः सन्धिः तं भवन्तं कारितवान् । तेन हीनत्वम् । बलानिर्जित्य कारित इति दुरुपस्थानमुक्तम् । ५४१॥ हृ-कोरन्यतरस्याम् ११५४' इति द्विकर्मकता । तस्य कार्तवीर्यस्य यो हन्ता परशुरामः। कृत्प्रयोगे कर्मणि षष्ठी। तेन हि तस्याग्निहोत्रधेनुमपहत्य गच्छतः परशुना बाहुसहस्रं छिनम् । तस्य हन्तारं स रामो जिगाय जितवान् । जयतेर्लिटि धातुजकारस्य Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com