________________
९४ भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
विरुग्णेत्यादि-विरुग्णानि अवसबानि कुण्ठितानि उदग्राणि महान्ति धारामाणि यस्य स कुलिशो वज्रः मम वक्षसि पतितः सन् । बली । आत्मानममिन्नं शतधा शतप्रकारम् । '१९८८ संख्याया विधार्थे धा ।५।३।४।' बलिनं मन्यते । अहो बलवानहं न येन शतधा भन्न इति । तस्य देवतारूपत्वात् बलमस्त्येव । आत्मानं बलिनं मन्यत इवेत्युत्प्रेक्षा ॥ २०९-कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम् ॥
बन्धने ऽनुपयोगि-त्वान् नतं तृण-वदत्यजम्. ॥२६॥ कृत्वेत्यादि-एष्वालीयत इत्यालानम् । अधिकरणे ल्युट् । '२५०९। विभाषा लीयतेः ।६।०५।' इत्यात्वम् । लङ्कादुमा आलानानि यस्यैरावताख्यस्य गजस्य तं कृत्वा । नतं नम्रमुखम् । तृणमिव मत्वा । सोऽहमत्यजं त्यक्तवान् । बन्धनेऽनुपयोगित्वात् प्रयोजनाभावात् ॥ २१०-आहोपुरुषिकां पश्य
मम, सद्-रत्न-कान्ति-भिः॥ ध्वस्ताऽन्धकारे ऽपि पुरे
पूर्णेन्दोः सन्निधिः सदा. ॥ २७ ॥ आहो इत्यादि-अहोपुरुषस्य भावः । मनोज्ञादित्वादुन् । आहोपुरुषिका कार्यसिद्धावपि तत्साधने वृत्तिः । तां मम शूर्पणखे पश्य । सद्रबकान्तिभिः ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः पूर्णचन्द्रस्य सन्निधिः सदा सन्निधानं । न पुनस्तेन कृत्यं रत्नप्रभाभिरेव तस्कृत्यस्य कृतत्वात् ॥ २११-हृत-रत्नश् च्युतोद्योगो रक्षोभ्यः कर-दो दिवि ॥
पूततायीमभ्येति सन्त्रपः किं न गोत्र-भित्. ॥२८॥ हृतेत्यादि-हृतोच्चैःश्रव आदिरनो गोत्रभिदिन्द्रः । अत एव च्युतोद्योगः । दिवि वर्तमानोऽपि रक्षोभ्यः करदः । राजग्राह्यं वित्तं प्रयच्छन् । पूततायीं शची '४९३। पूतक्रतोरै च ।४।१॥३६।' इति ङीष् । पुंयोगादाख्यायामिति । सन्त्रपः सबीडः । किं नाभ्येति न ढौकते ॥ २१२-अ-तुल्य-महसा सार्धं रामेण मम विग्रहः ॥
त्रपा-करस् , तथाप्येष यतिष्ये तद्-विनिग्रहे.' ॥२९॥ अतुल्येत्यादि-तदेवंविधस्य मम अतुल्यमहसा अतुल्यतेजसा रामेण सह विग्रहस्रपाकरः । २९३४॥ कृजो हेतु-३।२।२०।' इत्यादिना टः । तथापि त्वप्रार्थनया । एष च यतिष्ये तद्विनिग्रहे विविधनिग्रहविषये तस्य यतिष्ये यत्नं करिष्यामि । '२७८९। वर्तमान सामीप्ये वर्तमानवद्वा ३।३।१३॥' इति विक
पेन लटो विधानातू लहुदाहृतः॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com