________________
तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः --- ९३
'४९४॥ वृषाकप्यनि कुलित- कुसिद - |४|१|३७|' इत्यादिना ऐरिति सर्वत्र '५०४। पुंयोगादाख्यायः ॥ ४ । ११४८३ इति ङीष् । रोहिणी चन्द्रभार्या । रोहितशब्दात्: '४९६ । वर्णादनुदात्तात् |४|१|३९|' इत्यादिना ङीष् नकारश्च । वरुणानी न नानायीत्यत्र प्रतिषेध एकः पूर्वेण योज्यः द्वितीयः परेणेति । न चाग्नायीति पाठान्तरम् ॥
२०६ - प्रत्यूचे राक्षसैन्द्रस् ताम्'आश्वसिहि, बिभेषि किम्, ॥ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम् ॥ २३ ॥
प्रत्यूच इत्यादि - राक्षसेन्द्रो रावणः । राक्षसीं प्रत्यूचे । प्रतिवचनमुक्तवान् । आश्वसिहि खेदं त्यज । ' २४७४ | रुदादि - | ७|२|७६ ।' इत्यादिना इट् । बिभेषि किमर्थं तापसात् । हे नक्तञ्चरि ! मद्विषये क्षोभं रोषं त्यज । वाचाटे बहुभाषिणि । ‘१९३१। आलजाटचौ बहुभाषिणि |५/२/१२५॥ यस्माद्वावणोऽहम् । अनेनात्मोत्कर्षमा वेदयति ॥
तमेव स्फुटयन्नाह -
२०७ - मामुपास्त दिदृक्षान्वान् याष्टीक व्याहतो हरिः ॥ आज्ञा- लाभोन्मुखो दूरात् काक्षेण नादरेक्षितः ॥ २४ ॥
मामित्यादि - मामुपास्त सेवितवान् । हरिरिन्द्रः । दिदृक्षावान् द्रष्टुमिच्छावान् । आत्मदर्शनेच्छावानित्यर्थः । दूरादेव याष्टीकैः वेत्रग्राहिभिर्व्याहतोऽपसारितः । ' ६.९४। कर्तृ - करणे कृता - | २|१|३२|' इति सः । यष्टिः प्रहरणमेषामिति '१६५९ । शक्ति यष्ट्योरीककू | ४|४|५९ |' | भज्ञालाभे किमभिधास्यतीत्युत्सुक उन्मुखः तत्परः । सप्तमीति योगविभागात् सः । अनादरेक्षितः भवज्ञाविलोकितः । काक्षेणः कुदृष्ट्या | १०३० का पथ्यक्षयोः | ६ | ३ | १०४ | ' इति कुशब्दस्य कादेशः । यदि तत्पुरुष इत्यनुवर्तते तदा कुत्सितमक्षमिति विग्रहः । अक्षशब्दस्वेन्द्रियसामान्याभिधायित्वेऽपि ईक्षितशब्दोपपदत्वाच्चक्षुषि वर्तते । अथ तत्पुस्व इति नानुवर्तते सामान्येनादेशस्तदा कुत्सितमक्षि यस्येति । '८५२ । बहुवीसक्थ्यक्ष्णोः - |५|४|११३।' इति षच् । काक्षेण मयेत्यर्थः ॥ २०८ - विरुग्णो दग्र-धाराऽग्रः कुलिशो मम वक्षसि ॥
अभिन्नं शतधा SSत्मानं मन्यते बलिनं बली. ॥२५॥
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com