________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम चतुर्थः सर्गः -
८५
शोभां नैव केचन न केचिदपि '८०८। टु-भ्राजू दीप्तौ ।' सर्वत्र '३२६७ ॥ द्वितो ऽथुच् ।३।३।८९ । ' ॥
१८२ - मृगयुमिव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वर्ती मरायु॑दन्यन् ॥ रघुतनयमुपाययौ त्रि - मूर्धो, विषभृदिव मुखं पतत्रि - राजम् ॥ ४४ ॥
"
मृगयुमित्यादि - अथैतस्मिन् राक्षसविध्वंसनप्रस्तावे त्रिमूर्धः त्रिशिरा नाम राक्षसः रघुतनयमुपाययौ उपागतः । मृगयुमिव लुब्धकमिव । मृगान् यातीति मृगयुः । मृगवादयश्चेत्यौणादिककुप्रत्ययान्तः । दक्षिणेम दक्षिणे ईमें व्रणं यस्येति | '८३५ | दक्षिणेर्मा लुब्धयोगे |५|४|१२६ । ' इत्यनिच् । यथा मृगो लुब्धकत्रणितदक्षिणाङ्गः तमेव मरणायोपयाति । दिशमिव दाहवतीं यथा दिशं दावाग्नियुतां मरौ निर्जले देशे मृग उदन्यन् उदकपानाभिलाष उपयाति । उदकमिच्छति । ‘२६५७। सुप आत्मनः | ३|१|८|' इति क्यच् । उदकस्योदन् भावः । ' २६६१॥ असनायो - १७|४|३४|' इत्यादिना निपातितः । तदन्ताल्लट् शतृप्रत्ययः । विषभृदिव यथा विषधरः सर्प उग्रमुखं भीषणमुखं पतत्रिराजं गरुडमुपयाति तद्वत्तमिति । '७८८ । राजाऽहः सखिभ्यष्टच् | ५|४|९१॥ ॥
१८३ - शित - विशिख - निकृत्तकृत्स्न- वक्रः क्षिति-भृदिव क्षिति-कम्प - कीर्ण - शृङ्गः ॥ भयमुपनिदधे स राक्षसानाम्
अ- खिल-कुल-क्षय-पूर्व-लिङ्ग-तुल्यः ॥ ४५ ॥
शितेत्यादि --- त्रिमूर्धो राक्षसानां भयमुपनिदधे उपनिहितवान् । कीदृशः 'शित विशिखैस्तीक्ष्णविशिखैः निकृत्तानि छिन्नानि कृत्स्नानि सर्वाणि वक्राणि मुखा'नि यस्य सः । क्षितिभृदिव भूधर इव । कीदृशः । क्षितिकम्पकीर्णशृङ्गः क्षिते भूमैः कम्पेन कीर्णानि क्षिप्तानि शृङ्गाणि यस्य क्षितिभृतः । अखिलस्य सर्वस्य कुलस्य 'क्षये विनाशे यत् पूर्व लिङ्गं तेन तुल्यः असावप्यखिलराक्षसक्षयस्य पूर्वलिङ्गतुल्यः ॥ इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री - भट्टिकाव्येप्रथमे प्रकीर्णकाण्डे लक्षणरूपे चतुर्थः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके श्री राम-प्रवासो नाम चतुर्थः सर्गः पर्यवसितः ।
१—सर्गान्तत्वाद् वृत्त-भेदः । तदर्धसमजातौ ' पुष्पिताग्रा' नाम | तलक्षणम् — "अयुजि न-युग-रेफ- तो यकारो, युजि च न-जौ जर-गाश् च पुष्पिताग्रा ॥” इति वृत्तरत्नाकरे भट्ट-केदारः । २ -- ( १८२ ) लोक स्थं टीकनं प्रेक्ष्यम् ।
भ० का० ८
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com