________________
૮૪
भट्टिकाव्ये – प्रथमे प्रकीर्णकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
-
मानविंशतिक सहस्रवसनादण् | ५|१|२७|' प्राग्वतेः । ' १७५२ । सङ्ख्यायाः संवत्सर ।७।३।१५।’इत्युत्तरपदवृद्धिः । चतुर्दशसाहस्रं बलं ययोः तौ । तथा पारश्वधिकधानुष्कयाष्टिकप्रासिकान्वितौ । परश्वधः प्रहरणमेषामिति १६०८ । परश्वधात् ठञ् ॥ ४॥ ४|५८|' तथा धनुः प्रहरणमेषां । यष्टिः प्रहरणमेषामिति '५६०९। शक्ति-यष्ट्योरीककू | ४ | ४|५९ | ' प्रासः कुन्तः प्रहरणमित्यौत्सर्गिकष्ठक् । तत्र धनुषष्ठक् । १२२१ । इसुसुक्तान्तात्कः ।७।३।५११' ततः सेनाङ्गत्वात्कृतैकवद्भावः तेनान्वितावनुगतौ ॥ १७९ - अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ ॥
बहु मूर्ध्नो द्वि-मूर्धा त्रिमूर्धांश् च ऽहतां मृधे. ४१
अथेत्यादि - अथ एतस्मिन् प्रस्तावे रामलक्ष्मणौ मृधे संग्रामे विशिखैः शरैरहतां हतवन्तौ । हन्तिः परस्मैपदी तस्माल्लङि तसस्ताम् । तस्य ङित्वे ' २४२८| अनुदात्त - |६|४|३७|' इत्यादिना अनुनासिकलोपः । कान्- राक्षसान् । विशेषणोपादानात् विशेष्यप्रतिपत्तिः । प्रकृतत्वाद्वा । सम्पततोऽभिपततः । बहुमूर्ध्नो बहुशिरसः । तथा द्विमूर्धीस्त्रिमूर्धाश्च । ८५४ । द्वि-त्रिभ्यां ष मूर्तः | ५|४|११५' इति समासान्तः षः । अत एव भीमान् भयानकान् । त्रिमूर्धश्चेत्यत्र '१४०| नश्छव्यप्रशान् ।८।३।७।' इति रुः । पूर्वस्य त्वनुनासिकः । '१३८ । विसर्जनीयस्य सः |८|३|३४|' इति चुत्वम् ॥
१८० - तैर् वृक्ण-रुग्ण - सम्भुग्न-क्षुण्ण-भिन्न विपन्नकैः ॥
निमग्नोद्विग्न-संहीणैः पप्रे दीनैश च मेदिनी ॥ ४२ ॥
।
I
तैरित्यादि - तैः राक्षसैर्मेदिनी पत्रे पूरिता । '११३५ प्रा पूरणे ।' इत्यस्मात्कर्मणि लिट् । वृक्णैः छिन्नैः । रुग्णैः भग्नहस्तपादैः । सम्भुग्नैः वत्रीकृत देहैः । क्षुण्णैः सम्पिष्टशरीरैः । मिन्नैः विदारितैः । विपन्नकैः नष्टैः । '२०३१ अनुकस्पायां कन् |५|३|७६ |' निमग्भैः परिभूतैः । उद्विग्नैर्भीतैः । संहीणैर्लज्जितैः वयमपीदृशीं दशां प्राप्ता इति । दीनैः हा मातः हा भ्रातरित्येवं भाषमाणैः । तत्र वृश्चि रुजि - भुज- मस्ज - विजि-भ्यो निष्ठायां '३०१९ | ओदितश्च | ८ | २|४५|' इति नत्वम् । '३७८ । चोः कुः | ८|२|३०|' इति कुः । क्षुदि - भिदि पदिभ्यो '३०१६। र-दाभ्यां -।८।२।४२।' इति दस्य च नः । संहीण इति '३०३७। नुद- विद - 1८|२| ५६।' इत्यादिना । ‘१२०९ | दी इ क्षये ।' इत्यस्य स्वादय ओदितः इति ' ३०१९| ओदितश्च |८|२||४५|' इति नत्वम् ॥
१८१ - के चिद् वेपथुमसेदुन्ये दवथुमु॑त्तमम् ॥
"
स-रक्तं वमथुं केचिद्, भ्राजथुं न च केचन ॥४३॥
·
केचिदित्यादि - तेषां मध्ये केचित् वेपथुं कम्पम् । '३९३ । टु-वेट कम्पने । ' आसेदुः प्राप्ताः । अन्ये दवथुमुपतापमुत्तमं महान्तम् । '१३३६ । टु-दु उपतापे । केचिद्वमथुं छर्दनं सरक्तं सशोणितम् । '९०६ । टु बम उद्विरणे ।' भ्राजथं
1
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com