________________
८६ भट्टि-काव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः,
पञ्चमः सर्गः१८४-निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम् ॥ ___ उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणो. ॥१॥ निरेत्यादि-खरदूषणौ रणं परितः समन्तात् । 'अभितः-' इत्यादिना द्वितीया । चेरतुः भ्रान्तौ । निराकरिष्णू शत्रुनिराकरणशीलौ । वर्तिष्णू अभिमुखं वर्तनशीलौ न पलायनशीलौ । वर्धिष्णू मायया महाप्राणोद्भावनशीलौ । उत्पतिष्णू नभ उत्पतनशीलौ । सहिष्णू शस्त्रप्रहारसहनशीलौ । सर्वत्र ३११६॥ अलंकृञ्-३।२।१३६॥' इत्यादिना इष्णुच् ॥ १८५-तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ ॥
अकाटमायुध-च्छायं रजः-सन्तमसे रणे. ॥२॥ तावित्यादि-रणे रणभूमौ रजःसन्तमसे । सङ्गतं तमः सन्तमसम् । "९४७। अवसमन्धेभ्यस्तमसः ।५।१७९।' इत्यच् । रजसा सन्तमसं अस्मिन् इति रजःसन्तमसं तस्मिन् रजसा कृतान्धकारे तो खरदूषणौ आयुधच्छायमायुधबाहुल्यमकाटीम् कृतवन्तौ । भायुधानां छायेति ८२५। छाया-बाहुल्ये ।२।।२२।' इति नपुंसकत्वे हस्खत्वम् । खगादीनां बाणान्तानां द्वन्द्वैकवद्भावं कृत्वा पश्चात्तेन सहिता गदेति शाकपार्थिवादित्वात् सः । अन्यथा समुदायस्य ९१०। जातिरप्राणिनाम् ।।४।६।' इत्येकवद्भावेन नपुंसकलिङ्गता स्यात् बाणगदमिति । खड्गमुसलपासचक्रबाणगदाः करे येषामिति समासे प्रहरणार्थेभ्य इत्यादिना करशब्दस्य परनिपातः॥ १८६-अथ तीक्ष्णाऽऽयसैर् बाणैरधि-मर्म रघूत्तमौ ॥
व्या, व्याधर्म-मूढौ तौ यम-साच्-चक्रतुर् द्विषो.॥३॥ अथेत्यादि-अथैतस्मिन् संग्रामे रघूत्तमौ रामलक्ष्मणौ कर्तृभूतौ । कर्मभूतौ द्विषाविति । २९७५। सत्सूद्विष-३।२।६।' इत्यादिना विप् । यमसान्चक्रतुः यमाधीनी कृतवन्तौ । २१२५॥ तदधीनवचने ।५।४।५४।' इति सातिः। तीक्ष्णायसैर्बाणैः । तीक्ष्णमायसं फलं येषामिति । व्याधं व्याधं विद्धवा विद्धा । ३३ ४३। आभीक्ष्ण्ये णमुल ३।४।२२।' तत्र '३३२०। समानकर्तृकयोः पूर्वकाले ३॥४॥२१॥ इति वर्तते । 'आभीक्ष्ण्ये द्वे भवतः' इति द्विवचनम् । अधिमति विभक्त्यर्थेऽव्ययीभावः । अमूढौ सावधानौ रामलक्ष्मणौ ॥
मर्मवेधमेवाह१८७-हत-वन्धुर् जगामा ऽसौ ततः शूर्प-णखा वनात् ॥
पारे-समुद्रं लङ्कायां वसन्तं रावणं पतिम्.॥४॥ हतेत्यादि-असौ शूर्पणखा हतबन्धुः व्यापादितभ्रातृद्वया ततो वनाइण्ड
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com