________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- ८१ १६९-तस्याः सासद्यमानाया लोलूयान्वान् रघूत्तमः ॥
असिं कौक्षेयमुद्यम्य चकाराऽप-नसं मुखम्. ॥३१॥ तस्या इति-सासद्यमानायाः समीपे गर्हितं सीदन्त्याः प्रविशन्त्याः । '२६३५। लुप-सद-३।१॥२४॥' इत्यादिना यङ् । रघूत्तमो लक्ष्मणः । मुखमपनसमपगतनासिकं चकार । '४५८। उपसर्गाच्च ।५।४।११९।' इत्यच । नासिका च नसादेशमापद्यते । तत्र संज्ञायामिति नानुवर्तते । किं कृत्वा । कौक्षेयमसिमुद्यम्य उत्क्षिप्य । कुक्षौ भव इति १४३३। दृति-कुक्षि-४।३।५६।' इत्यादिना ढम् । कौक्षेयः । लोलूयावान् अत्यर्थ लवनक्रियायुक्तः । लुनातीति लोलूया । यहन्ताद् (३२७९। अप्रत्ययात् ।३।३।१०२।' इत्यकारः । सा विद्यते यस्येति मतुप् ॥ १७०-'अहं शूर्पणखा नाम्ना
नूनं ना ऽज्ञायिषि त्वया ॥ दण्डो ऽयं क्षेत्रियो येन
मय्यपाती'ति सा ऽब्रवीत्. ॥ ३२॥ अहमित्यादि-सा राक्षसीत्यब्रवीत् । अहं शूर्पणखेति नाम्ना नूनमवश्यं त्वया नाज्ञायिषि न ज्ञातास्मि । ज्ञा इत्यस्मात्कर्मणि लुङ् । '२७५७। स्य-सि६१६२।' इत्यादिना अजन्तत्वात् चिण्वदिद । २७६१॥ आतो युक् ।७।३॥३३॥' इति युक् । '५१०॥ स्वाङ्गाच-४३११५४।' इति ङीपि प्राप्ते '५१४॥ नखमुखात् संज्ञायां ।४।११५४।' इति प्रतिषेधः । '८५७। पूर्वपदारसंज्ञायां-1८।४।३।' इति णत्वम् । अज्ञाने कारणमाह-येनायं दण्डो नासाच्छेदनलक्षणो मय्यपाति पातितः । पातेः कर्मणि लुङ् । चिणादेशः । २२०२। अत उपधायाः ।७।२।११६' इति वृद्धिः । '२३२९। चिणो लुक् ।६।४।१०४।' क्षेत्रियः परक्षेत्रे चिकित्स्यः। परक्षेत्रे जन्मान्तरशरीरे यदि शक्यश्चिकित्सितुं तदा नासिकायाः सम्भवात् । १८९२ । क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।५।२।९२।' इति निपातनम् ॥ १७१-पर्यशाप्सीद् दिविष्ठा ऽसौ संदर्य भयन्दं वपुः ॥
अपिस्फवच् च बन्धूनां निनक्षुर् विक्रमं मुहुः॥३३॥ पर्यशाप्सीदित्यादि-असौ राक्षसी पर्यशाप्सीत् आक्रुष्टवती । शपेरनिटः सिचि हलन्तलक्षणा वृद्धिः । शप उपालम्भन इति तक न भवति । उपालम्भनं हि वाचा शरीरस्पर्शनम् । दिविष्ठा नभसि वर्तमाना । '९७२। तत्पुरुषे कृति बहुलम् ।६।३।१४।' इति सप्तम्या अलुक् । '२९१८। अम्बाम्ब-1८।३।९।' इति षत्वम् । भयदं रौद्रं वपुः शरीरं संदर्य दर्शयित्वा । बन्धूनां विक्रमं शौर्य मुहुः पुनः पुनः । अपिस्फवत् स्फीतीचकार । '२५७०। अर्तिही-७।३।३६' इत्यादिना णावित्यनुवृत्तौ २५९७। स्फायो वः ।७।३।४१॥' इति वकारः । सफायShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com