________________
८० भट्टि-काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थों वर्गः, योगे कर्मणि षष्ठी । धर्मसन्तानसूः पूर्ववत् विप् । धर्मरत इत्यर्थः । वने वर्तमानानां मुनीनां वानप्रस्थादीनामित्यर्थः । तेषां भार्याग्निपरिग्रहात् यानि दारगवानि । दाराश्च गावश्चेति दारगवानि '९४५। अचतुर-1५४।७७।' इत्यादिना निपातितानि । दारयन्तीति दाराः । 'दारजारौ कतरि णिलुक् च' इति पञ् । तेषां च येनाभयं सदा दत्तमिति योज्यम् । येषामेव प्राप्तिक्रिया तेषामेवाभयमिति समानकर्तृकत्वम् ॥ १६६-ततो वावृत्यमाना ऽसौ राम-शालां न्यविक्षत, ॥
'मामुपायंस्त रामति वदन्ती साऽऽदरं वचः ॥२८॥ तत इत्यादि-ततो लक्ष्मणवचनानन्तरमसौ राक्षसी वावृत्यमाना राम वृण्वाना । '१२३५। वा वृतु वरणे।' इति देवादिकः आत्मनेपदी । रामशालां रामस्य पर्णकुटीरं न्यविक्षत प्रविष्टा । विशेः '२३३६॥ शल इगुपधादनिटः क्सः ३।५।' । २६८३। नेविंशः ।।३।१७।' इति तङ् । मामुपायंस्त रामेति है राम । अहं प्रार्थये भवान् मामुपायंस्त परिणयविति वाक्यभेदेन योज्यम् । '२७० .९०। आशंसायां भूतवञ्च ।३।३।१३२।' इति लुङ् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६।' इति तङ् । '२७३०। विभाषोपयमने ।१२।१६' । इत्यकित्त्वपक्षे रूपम् । इत्येवं वचः सादरं वदन्ती ॥ १६७–'अ-स्त्रीको ऽसावहं स्त्रीमान्, स पुष्यति-तरां तव ॥
पतिरित्यब्रवीद् रामस्-'तमैव व्रज, मा मुचः.' ॥२९॥ अस्त्रीत्यादि-असौ लक्ष्मणोऽस्त्रीकः । न विद्यते अस्य स्त्रीति । '८३३॥ नताश्च ।५।४।१५३।' इति कप् । '८३५। न कपि ।७।४।१४।' इति इस्वप्रतिषे. धः । अहं पुनः स्त्रीमान् सभार्यः । प्रशंसायां मतुप् । स एव लक्ष्मणः । पुष्यतितराम अतीव पुष्यति लक्ष्मणस्तव पतिः । २००२। तिङश्च ॥५॥३॥५६॥' इति तरप् । '२००४॥ किमेत्ति-1५।४।११॥' इत्याम् । तस्मात्तमेव लक्ष्मणं व्रज गच्छ । मा मुचः मा त्याक्षीः । मुचेर्लङ् । लदित्वादङ् । इति एवमब्रवीद्रामः उक्तवान् । आदादिकस्य ब्रूनो लङि '२४५२। बुव ईद ।७।३।९३॥' इति ईटि रूपम् ॥ १६८-लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवा ऽगमत् ॥
__ मन्मथाऽऽयुध-सम्पात-व्यथ्यमान-मतिः पुनः॥३०॥
लक्ष्मणमित्यादि-लक्ष्मणं पुनर्भूयोऽगमत् लक्ष्मणं प्रति गता । यथा गौतषस्य न्ती मैथुनेच्छावती महोक्षं महावृषम् । वृषस्यन्तीत्युपमानविशेषणमे. तत् । तेन वृषं लब्धुमिच्छन्तीति क्यच् । '२६६९। अश्व-क्षीर-७॥१॥५१॥' इत्यादिना असुक् । तद्यश्ववृषयोमैथुनेच्छायामिति । तद्वदागमत् । महोक्षमिति '९४५। अचतुर-५४४७७।' इत्यादिसूत्रेण निपातितम् । मन्मथस्यायुधानि शराः। आयुध्यन्ते एभिरित्यायुधानि । घनर्थे कविधानमिति कः । तेषां सम्पातः संश्लेषः । तसात् व्यथ्यमाना पीड्यमाना मतिर्मनो यस्याः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com