________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- ७९ १६२-राघवं पर्ण-शालायामिच्छो ऽनुरहसं पतिम्, ॥
यः स्वामी मम कान्तावानौपकर्णिक-लोचनः॥२४॥ राघवमित्यादि-रामं पर्णशालायामवस्थितं पतिमिच्छ । अनुरहसं विवेकप्राप्तमनुगतो रह इति विगृह्य ९४९। अन्ववतप्ताद्रहसः ।५।११८१॥' इत्यच् । यो राघवो ममापि स्वामी प्रभुः । २९३२। स्वामिनेश्वर्ये ।५।२।१२६।' इति निपाति. तम् । कान्तावान् सभार्यः । प्रवृत्तसम्भोगोऽसौ नाहमिति दर्शयति । तमेव रूपशौर्याभ्यां वर्णयन्नाह-औपकर्णिकलोचनः। कर्णयोः समीपमुपकर्णम् । समीपार्थेऽव्ययीभावः । तत्र प्रायभव इति । १४१५। उपजानूपकर्णोपनीवेष्ठक् ।।३। ४०।' शेषमपि शब्दद्वयं प्रयोक्ष्यते । औपकर्णिके लोचने यस्य । कर्णान्तायतलोचन इत्यर्थः ॥ १६३-वपुशु चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम् ॥
संग्रामे सर्व-कर्मीणौ पाणी यस्यौपजानुको. ॥ २५ ॥ वपुरित्यादि-यस्य राघवस्य वपुः शरीरं चान्दनिकं चन्दनेन सम्पद्यते प्राप्तशोभं भवति । मुखं च कार्णवेष्टकिकम् । कर्णवेष्टकाभ्यां कर्णालङ्काराभ्यां कार्णवेष्टकिकम् । तत्रोभयत्र १७६३। सम्पादिनि ।५।१।९९।' इति ठक् । पाणी हस्तौ संग्रामे युद्धे सर्वकर्मीणौ धनुःखङ्गादिव्यापारकर्माणि व्यामुतः । १८०८। तरस
देः-५।२।७।' इति खः । औपजानुको आजानुको । जानुलम्बावित्यर्थः । अत्र ठक् । '१२२१। इसुसुक्तान्तात्कः ।७३।५१ ॥ १६४-बद्धो दुर्बल-रक्षाऽर्थमसिर् येनोपनीविकः, ॥
यश् चापमाश्मन-प्रख्यं सेषु धत्तेऽन्य-दुर्वहम् ॥२६॥ बद्ध इत्यादि-येन असिः खङ्गः औपनीविकः । नीविसमीपे प्रायेण भवतीति । स हि नीवीं प्राप्य वर्तमानः पार्श्वयोश्चोर्ध्वं निबद्धः। किमर्थ-दुर्बलरक्षार्थ दुर्बलरक्षाय इदमित्यस्मिन्नर्थे चतुर्थी । तदर्थेत्यादिना सः । तत्रार्थेन नित्यसमासः सर्वलिङ्गता च । यश्चापं धनुर्धत्ते धारयति । आश्मनप्रख्यम् । अश्मनो विकार इत्यण् । ११५५। अन् ।६१६७४' इति प्रकृतिभावे प्राप्ते अश्मनो विकार उपसल्यानमिति टिलोपः पाक्षिकः । विभाषोंरित्यतो मण्डूकप्लत्या विभाषाग्रहणानुवृत्तेर्विकारे वाच्ये । अन्यत्राश्मन एव भवति । आश्मनेन प्रख्या सादृश्यमस्य तदाश्मनप्रख्यमुपलघटितमिव । सेषु सशरम् । अन्यदुर्वहं दुःखेनोखत इति खल । रामादन्येन दुर्वहमित्यर्थः ॥ १६५-जेता यज्ञ-दुहां संख्ये धर्म-सन्तान-सूर वने ॥
प्राप्य दार-गवानां यं मुनीनाम-भयं सदा.' ॥ २७ ॥ जेतेत्यादि-यज्ञाय दुयन्तीति यज्ञदुहो राक्षसाः । २९७५। सत्सूद्विष१३।२।६।' इत्यादिना किए । तेषां संग्रामे जेता । तृजन्तोऽयम् । ततश्च कृत्प्रShree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com