________________
७४
भट्टिकाव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः,
भर्तेः 'सूचि-सूत्रि-' इत्यादिना यङ् । '२६३३॥ यङि च ।७।।३०।' इति गुणः । '२४४६। न न्द्राः ।।१३।' इति प्रतिषेधस्य प्रतिषेधो यकारपरस्य न द्वित्वनिषेध इति रेफो द्विरुच्यते । भयशीला भीरुः । ३१५४। मियः क्रुक्कुकनौ ।३।२। १७४।' क्रियाशब्दत्वात् १२१। उहुन्तः।४।०६६।' इति उ न भवति । अमनुष्यत्वाच्च । तथाहि लक्ष्मणेनामानुषीयमिति ज्ञाता । तथाच भङ्ग्या दर्शयन्नाह-असूर्यम्पश्यरूपा । अतिगोपनीयतया सूर्यमप्यनिषिद्धदर्शनं न पश्यतीति । '२९५१। भ-सूर्य-ललाटयोः-३।२।३६।' इत्यादिना खश । '२३६०। पाप्रा-७।३।७४।' इत्यादिना पश्यादेशः । असूर्यम्पश्यं रूपं यस्या इति समासः । सा न पश्यतीति रूपमपि न पश्यतीत्युक्तम् ॥ १६०-मानुषानभिलष्यन्ती रोचिष्णुर् दिव्य-धर्मिणी ॥
त्वमप्सरायमाणैह स्वतन्त्रा कथमश्चसि. ॥ २२ ॥ मानुषानित्यादि-मनोरपत्यानि मानुषाः । ११८५। मनोोतावन्यतौ पुक् च ॥१६॥' तानभिलष्यन्ती कामयन्ती रन्तुमिच्छन्ती । '२३२१। वा भ्राश-३।११७०।' इत्यादिना श्यन् । रोचिष्णुः रोचनस्वभावा। '३११६। अलंकृञ्-३।२।१३६।' इत्यादिना इष्णुच् । अत एव दिव्यधर्मिणी । दिवि भवा दिव्या देवाः । राक्षसा अपि देवयोनित्वात् । तेषां धर्मः स्वभावः सोऽस्या अस्तीति । '१९३८। धर्म-शील-1५।२।१३२॥' इत्यादिनेनिः । अप्सरायमाणा अप्सरा इवाचरन्ती । राक्षसभावं गोप्नुमिति भावः । 'उपमानादाचारे' इत्यधिकारे '२६६५। कर्तुः क्या स-लोपश्च ।३।१।१॥' 'ओजसोऽप्सरसो नित्यम्' इति वचनात् । इह वने स्वतन्त्रा कथमञ्चसि भ्रमसि । स्व आत्मा तन्त्रः प्रधानं यस्याः। अपराधीनत्वात् । अनयोक्त्या राक्षसीत्वं दर्शयति ॥ १६१-उग्रं पश्याऽऽकुले ऽरण्ये शालीनत्व-विवर्जिता ॥
कामुक-प्रार्थना-पट्टी पतिवत्नी कथं न वा. ॥ २३ ॥ उग्रमित्यादि-उग्रम्पश्यन्तीत्युग्रम्पश्याः । पापाशयत्वात् शबरादयः । '२९५२। उग्रम्पश्य-३।२।३७॥' इत्यादिना खर निपात्यते । तैराकुले व्यासे अरण्ये । पतिवनी जीवत्पतिः कथं केन प्रकारेण न वा नैवं भवसीत्यर्थः । ४८९। अन्तर्वत्पतिवतोर्नुछ ।४।१॥३२॥' इत्यत्र पतिर्विद्यते अस्या इति मतुप् सिद्धः । जीवत्पत्यां मतुपो यत्वं निपात्यते । नुक् सूत्रेणैव विधीयते । डीप्प्रत्ययस्निवादेव सिद्धः । शालीनस्वविवर्जिता । अष्टतया वर्जिता । शालाप्रवेशमहतीति १८२॥ शालीन-कौपीने-14।२।२०।'इति खम् निपात्यते । अष्टेऽमिधेये प्रवेश. शब्दस्य लोपः। तस्य भावः शालीनत्वम् । कामुकः कामशीलः । १३४॥ लष-पत-३।२।१५।' इत्यादिना उकन् । तस्य प्रार्थनायां पट्वी चतुरा । ५०२॥ वोतो गुणवचनात् ॥१४॥ इति डीप् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com