________________
७६ भट्टि काव्ये-प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः, ' कर्णमूलसमीपमित्यर्थः । १८२५। तस्य पाकमूल-५।२।२४।' इत्यादिना जाहच् । कर्णजाहयोर्विश्रान्ते विलोचने यस्या इति सप्तम्युपमानेत्यादिना उपपदलोपी बहुबीहिः । वाक्रवचेन वाक् च त्वक् चेति प्राण्यङ्गत्वादेकवद्भावः । ९३०। द्वन्द्वात्रुद-ष-हान्तात्-1५।४।१०६॥' इति टच । अतिसर्वेण अतिक्रान्तेन सर्वम् । अत्यादय इति समासः । ६५५। एकविभक्ति चापूर्वनिपाते ।।२।४४।' इति सर्वशब्दस्योपसर्जनत्वेऽपि पूर्वनिपातो न भवति अपूर्वनिपात इति प्रतिषेधात् । वाक्त्वचेन वामयेन माधुर्येण मार्दवेन चासाधारणेनोपलक्षितेनेत्यर्थः । इत्थम्भूते तृतीया । चन्द्रलेखेव पक्षतौ तनुत्वात् । पक्षोऽनार्धमासः । तस्य मूले प्रतिपदि । १८२६॥ पक्षात्तिः ।५।२।२५।। १५५-सुम्पाद् द्विरद-नासोरूर मृदु-पाणि-तलाऽङ्गुलिः ॥
प्रथिमानं दधानेन जघनेन धनेन सा ॥ १७ ॥ सुपादित्यादि-शोभनौ पादौ यस्याः असौ सुपात् । '४७९। सङ्ख्यासुरवस्य ।५।४।१४०।' इति पादान्तलोपः '४५७। पादोऽन्यतरस्यां ।। इति यदा डीप नास्ति तदेत्थं रूपम् । द्विरदनासोरूढेिरदनासे इव करिपोतकराविक जरू यस्याः । उपमानपूर्वो बहुव्रीहिः । ५२४। उरूत्तरपदादौपम्ये ।।१।६९।' इति जङ् । रयते अनेनेति रदः दन्तः । ३२९६॥ पुंसि संज्ञायां घः-३।३।११।' करणे । द्वौ रदौ यस्येति द्विरदः। मृदुपाणितलाङ्गुलिः। तलं च अङ्गुलिश्चेति द्वन्द्वः। तत्र ध्यन्ताल्पान्तरयोः अल्पान्तरस्य पूर्वनिपातः । पाण्योस्तलाङ्गुलि पाणितला. ङ्गुलि । मृदु पाणितलाङ्गुलि यस्य इति योज्यम् । प्रयिमानं पृथुतां दधानेन धारयता । घनेन उपचितेन जघनेनोपलक्षिता सा राक्षसी ॥ १५६-उन्न्नसं दधती वक्र शुद्ध-दल-लोल-कुण्डलम् ॥
कुर्वाणा पश्यतः शंयून स्रग्विणी सुम्हसाऽऽनना॥१८॥ उन्नसमित्यादि-उच्यते अनेनेति वक्रम् । सर्वधातुभ्य औणादिकः ट्रन् तत्र वक्रशब्दो मुखैकदेशे वर्तमानोऽपि कविभिः समुदाये प्रयुज्यते । वक्रं मुखमुन्नसं दधती । '४२७। नाभ्यस्ताच्छतुः ।७।११७८।' इति नुम् न भवति । उन्नता नासिका यस्मिन्निति । अञ्नासिकायाः संज्ञायां नसं चेत्यधिकृत्य '८५८। उपसगर्गाच्च ।५।४।११९।' इत्यच् । नासिका च नसादेशमापद्यते । शुद्धदत् शुद्धाः शुक्ला दन्ता यसिंतच्छुद्धदत् '८८३॥ अग्रान्तशुद्ध-।५।४।१४५।' इत्यादिना ददादेशः। लोले चञ्चले कुण्डले यस्मिन् तत् लोलकुण्डलम् । पश्यतो जनान् शंयून विद्यमानसुखान् कुर्वाणा शं सुखं तदस्यास्तीति । '१९४४॥ कं-शंभ्यां ब-भ-युस्तितु-त यसः ।५।२।१३८।' इति युस् । सित्वात्पदसंज्ञा । अनुस्वारः । अपश्यतो वा शंयून् कुर्वाणा पश्यतां तु पीडाकरी । स्रग्विणी मालावती । '१९२८। असाया।५।२।१२॥' इत्यादिना विनिः । सुहसानना हसनं हसः । '३२३९। स्वन-हसोर्वा ।३।३।१२।' इत्यप् । शोभनहसनमाननं यस्याः सा ॥ Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com