________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- ७५ आतीत्यादि-जपन्मन्त्रमिति सामर्थ्यलभ्यम् । सन्ध्याकालोऽधिकरणम् । तेन अत्यन्तसंयोगे द्वितीया । सम्यक् ध्यायन्त्यस्यामिति । '३२८३॥ आतश्यो. पसर्ग ।३।३।१०६॥' इत्यङ। किमवधि सन्ध्यामित्याह-प्रक्रान्तमायतीगवम् । भायत्या भायान्त्यो भवन्ति यस्मिन् काले गावः अस्मिन्नायतीगवं आरब्धाम् । '६७॥ तिष्ठतु-प्रभृतीनि-।२।१।१७।' इत्यव्ययीभावसमासत्वात्साधुः । '६५७। नाव्ययीभावात्-२२४८३॥' इति ससम्या अम्भावः । भापर्वादिणः शतरि '२४५५। इणो यण् ।६।४।८।' इति यणि डीपि च रूपं आयतीति । गावोऽपि गोचरात् गोष्ठमायान्ति दिवसस्यानाडिकावशेषे सन्ध्यापि तदैव प्रवर्तते । कियन्तमेवं जपन्नित्याह-आतिष्ठतु इति । तिष्ठन्ति गावो यस्मिन् काले दोहाय । गावो हि रात्रिप्रथमयामस्य नाडिकायामतीतायां विश्रान्ताः सत्यः उत्थाप्य दुयन्ते । आतिष्ठदिति '६६७। आङ् मर्यादाभिविध्योः ।।१॥१३॥' इत्यव्ययी. भावः । ६७१। तिष्ठद्गु-प्रभृतीनि च ।।१।१७।' इति चकारस्थानुक्तसमुच्चयार्थ. स्वादव्ययीभाव एव । पुनः समासान्तरं न भवति । प्रातस्तरामिति । प्रातरित्य. व्ययं प्रभातवाचि । प्रकर्षविवक्षायां तरप । तदन्तात् २००४॥ किमेत्-1५।४।१।' इत्यादिना भाम् अतिप्रभाते । पतत्रिभ्यः कुक्कुटादिभ्यः प्रथमं प्रबुद्ध उस्थितः । '३३९। पञ्चमी विभक्ते ॥२॥३॥४२॥' इति पञ्चमी। रविमादित्यं प्रणमन् यदा चरति तदा प्रियम्भावुकतामगादिति पूर्वेण योज्यम् ॥ १५३-ददृशे पर्ण-शालायां राक्षस्या ऽभीकया ऽथ सः, ॥
भार्योढं तमवज्ञाय तस्थे सौमित्रयेऽसकौ. ॥ १५ ॥ ददृश इत्यादि-पर्णानां शालायां स्थितः स रामः राक्षस्या ददृशे दृष्टः । कीदृश्या । अभीकया कामुक्या । १८७४। अनुकाऽभिका-५।२।७४।' इत्यादिना निपातितः । शेः कर्मणि लिद । अथ दर्शनानन्तरं भार्यो ऊढभार्यमूढा भार्या यस्येति । आहितान्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः । भवज्ञाय अनादृत्य । सद्भार्यस्वात् । असको राक्षसी पापासौ। कुत्सायां २०२५। अव्यय-सर्वनाम्नामकच्-५॥३७॥' सौमित्रये लक्ष्मणाय । ५३२॥ श्लाघ-हुआ-॥१॥४॥३४॥ इत्यादिना सम्प्रदानसंज्ञा । तस्थे स्वाभिप्रायं मैथुनायाविष्कृतवती । '२६९०। प्रकाशन.
राणा
मालाचार स्मेयाख्ययोश्च ।।३।२३।' इति प्रकाशने तङ् ॥
कलाकम् (8)१५४-दधाना वलिम्भं मध्यं कर्ण-जाह-विलोचना ॥
वाकुन्त्वचेनाऽति-सर्वेण चन्द्र-लेखैव पक्षतौ ॥ १६ ॥ दधानेत्यादि-सा तं प्रार्थयाञ्चक इति वक्ष्यमाणेन सम्बन्धः । कीदृशी। मध्यं स्तनजघनयोरन्तरम् । वलिभं वलयोऽस्मिन् सन्तीति । १९४५। तुन्दि. वलि-वटेभः ।५।२।१३९॥' दधाना धारयन्ती । कर्णजाहविलोचना । कर्णजाहं
१-(१४८) शोकोक्तं टीकनं प्रेक्ष्यम् । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com