________________
तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- ७३ १४७-ऋग्-यजुषमधीयानान् सामान्यांश्च समर्चयन् ॥
बुभुजे देव-सात्कृत्वा शूल्यमुख्यं च होम-वान्.॥९॥ ऋग्यजुषमित्यादि-ऋक् च यजुश्च ऋग्यजुषम् । '९४५। अचतुर।५।४१७७।' इत्यादिना निपातितम् । ९३०। द्वन्द्वात्रु-द-ष-हाऽन्तात् समाहारे ।५।१०६॥' इति टच् । ऋग्वेदं यजुर्वेदं च अधीयानान् पठतः । इङोऽधिपूर्वस्य लटि शानचि रूपम् । ६२७। न लोक-२॥३॥६९।' इति षष्ठीप्रतिषेधः । सामान्यांश्च सामसु साधून द्विजान् । १६५०॥ तत्र साधुः।४।१९८।' इति यत् । ११५४। ये चाभावकर्मणोः ।।४।१६।' इति प्रकृतिभावः । समर्चयन् पूजयन् । शूल्यमुख्यं च मांसं बुभुजे भुक्तवान् । शूले उखायां च स्थाल्यां संस्कृतम् । १२१८ । शूलोखाद्यत् ।४।२।१७।। २७३७। भुजोऽनवने ॥१॥३॥६६॥' इति तङ् । किं कृत्वा-देवसात्कृत्वा देवेभ्यो दत्वा । तदधीनं कृत्वा । २१२४॥ देये त्रा च ।५।४।५५।' इति चकारात् सातिश्च । होमवान् होमो विद्यते यस्येति । कृताग्निकार्य इत्यर्थः ॥
युग्मम् (२)१४८-वसानस् तन्त्रक-निभे सर्वाङ्गीणे तरु-त्वचौ ॥
काण्डीरः खाशिकः शाङ्गी रक्षन् विप्रांस्तनुत्र-वान् १० वसान इत्यादि-असौ रामो वनेष्वानभ्र भ्रान्तवानिति वक्ष्यमाणेन श्लोकेन सम्बन्धः । वसानः परिदधानः । १०९२। वसँ आच्छादने।' इत्यस्मात् शानच् । तरुत्वचौ वल्कले प्रत्यग्रे । तन्त्रकः १८७० । तत्रादचिरापहृते ।५।२। ७०।' इति कन् । तसिभे तत्तुल्ये । सर्वाङ्गीणे सर्वाङ्गाणि व्यामुवत्यौ । १८०८ तत्सर्व-५।२७।' इत्यादिना खः । काण्डीरः काण्डोऽस्यास्तीति । '१९९८ काण्डाण्डादीरनीरचौ ।५।२।११। खाहिकः खगोऽस्यास्तीति । १९२२१ मत इनिठनौ ।५।२।११५।' खाङ्गिक इति पाठान्तरम् । तत्र खड्गः । १६०७। प्रहरणं ४४५७।' इति ठक् । शाङ्गी सधनुः । तनुत्रवान् तनुं शरीरं वायत इति तनु. अम् । '२९१५। भातोऽनुपसर्गे कः ।३।२॥३॥' । संसर्गे मतुप् । पिनकवच इत्यर्थः । स एवंविधो विप्रान् ब्राह्मणान् रक्षन् ॥ १४९-हित्वाऽऽशितङ्गवीनानि फलैर् येष्वाशितम्भवम् , ॥
तेष्वसौ दन्दशूकाऽरिर्वनेष्वानभ्र निम्भयः॥११॥ हित्वेत्यादि-आशितास्तृप्ता गावो येषु भवन्ति तृणप्रायत्वात् । २०७१। अषडक्षा-1५।१७।' इत्यादिसूत्रेण खः पूर्वपदस्य च मान्तत्वं निपात्यते । तान्य. रण्यानि हित्वा येषु वनेषु फलैराशितम्भवमाशितस्य भवनं तृप्तिर्वर्तते ।
१-'दाभ्या युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर् विशेषकम् ॥
कालापकं चतुभिः स्यात् तदूर्व कुलकं स्मृतम् ॥१॥
भ. का. ७ Shree Sudharmaswami Gyanbhandar-Umara, Suratvww.umaragyanbhandar.com
-