________________
७२ भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः, आमि श्लुभावे द्विवचनम् । किं कृत्वेत्याह-प्रदिश्य कथयित्वा । किम्-आरात् समीपे सुतीक्ष्णनाम्नो मुनेः केतनं आश्रमम् । तत्र वासमुपकल्पयेति ॥ तव किमत्रावस्थानमिति चेदाह१४४-'यूयं समष्यथैत्यस्मि
नासिष्महि वयं वने, ॥ दृष्टाः स्थ, स्वस्ति वो, यामः
स्व-पुण्य-विजितां गतिम् ॥ ६ ॥ यूयमित्यादि-अपि नाम यूयं समष्यथ आगमिष्यथ। आयूर्व इण् भागमने बर्तते। ७३॥ एत्येधत्यूर्सु ।६।१८९।' इति वृद्धिः । इत्यस्मात्कारणात् । अस्मिन्वने वयमासिष्महि स्थिताः । असे ङि रूपम् । '८१८। अस्मदो द्वयोश्च ।१।२।५९।' इति चकारस्थानुक्तसमुच्चयत्वादेकत्वे बहुवचनम् । असदागमने किं ते फलमिति चेदाह-दृष्टाः स्थ अधुना दृष्टा भवथ । अस्तेमध्यमपुरुषबहुवचने '२४६९।
सोरलोपः।६।४।११।' इत्यकारलोपः। स्वस्ति कल्याणम् । वः युष्मभ्यम् । ५८३। नमः-स्वस्ति-१२।३।१६।' इत्यादिना चतुर्थी । '४०५। बहुवचनस्य वस्त्रसौ 119 २१॥' स्वपुण्येन विजितां लब्धां गतिं जन्म । यामः व्रजामः । रामरूपेण विष्णुरवतीर्णः तं दृष्ट्वा यास्याम इत्यत्र वयं स्थिता इति ॥ १४५-तस्मिन् कृशानु-साद्भूते सुतीक्ष्ण-मुनि-सन्निधौ ॥
उवास पणे-शालायां भ्रमन्ननिशमाऽऽश्रमान , ॥७॥ तस्मिन्नित्यादि-तस्मिन् शरभङ्गे कृशानुसाद्भूते कात्सर्येनानीभूते । '२१. २२॥ विभाषा साति कास्य ।५।४।५२।' इति सातिः । रामः सुतीक्ष्णस्य मुनेः सन्निधौ समीपे पर्णशालायां पर्णकुट्यामुवास उषितवान् । तत्र कृताधिवासस्य वृत्तिमाह-भ्रमन्ननिशमाश्रमान् पर्यटन् सदा तपोवनानि मुनीन् उपासितुम् ॥ १४६ वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः॥
शय्योत्थायं मृगान् विध्यन्नातिथेयो विचक्रमे ॥८॥ वनेवित्यादि-वासतेयेषु वसतौ साधुषु । १६५६। पथ्यतिथि।४।४।१०४।' इत्यादिना ढन् । निक्सन् शयानः । संस्तीर्यत इति संस्तरः । ३२३२। 'ऋदोरम् ।३।३।६७' पर्णानि संस्तरो यस्येति पर्णसंस्तरः । शय्योत्थायं शय्याया उत्थाय । उत्पूर्वात्तिष्ठतेः । '३३७३। अपादाने परीप्सायां ॥३॥४॥५२।' इति णमुल । शय्यते अस्यामिति शय्या । ३२७६। संज्ञायां ।३।३।९९।' इत्यादिना क्यप् । त्वरया मुखधावनादीन्यपि न कृत्वा । मृगान्विध्यन् ताडयन्। '२४१२। ग्रहि-ज्या-६।१।१६।' इत्यादिना सम्प्रसारणम् । तत्रापि नात्मार्थ लुब्ध इत्याह -आतिथेयः अतिथौ साधुः । पूर्ववत् ढन् । विचक्रमे विहरतिम । ..१२७१४। के मादविहरणे ॥१॥३॥४१॥ इति तछ । Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com