________________
तथा लक्ष्य रूपे कथानके राम प्रवासो नाम चतुर्थः सर्गः -
७१
अरण्यमभूत् । तदीयिवान् गतवान् । '३०९८ । उपेयिवान् - १३।२।१०९ । ' इत्यत्र उपसर्गस्यातत्रत्वात्केवलादपीणः वसुः ॥
१४० - अटाट्यमानो ऽरण्यानीं स-सीतः सह - लक्ष्मणः ॥
बलाद् बुभुक्षुणोत्क्षिप्य जज्ञे भीमेन रक्षसा ॥ २ ॥
अटाट्येत्यादि - महदरण्य मरण्यानी । '५०५ । इन्द्र-वरुण-|४|१|४९ । ' इत्यादिना हिमारण्ययोर्महरवे ङीषानुकौ । तां भटाव्यमानः अत्यर्थमटन् रामः । 'सूचि - सूत्रि - ' इत्यादिना यङ् । ससीतः सहलक्ष्मणः । ' ८४९ | वोपसर्जनस्य |५|३|०२|' इति विकल्पेन सभावः । बलात् बलवत्तया जहे हृतः । गृहीत इत्यर्थः । कर्मणि लिट् । उत्क्षिप्य उत्थाप्य हस्ताभ्यां केनापि रक्षसा । वैश्रवणशापात् तुम्बुरुनाम्ना गन्धर्वेण राक्षसीभूतेन विराधाख्येन बुभुक्षुणा भोक्तुमिच्छुना । भीमेन भयानकेन । 'भियः षुक्' इत्यौणादिकषुगभावपक्षे रूपम् ॥
१४१ - अवाक् - शिरसमुत्-पादं कृ॒तान्तेना॑ ऽपि दुख्दमम् ॥ भङ्क्त्वा भुजौ विराधाऽऽख्य॑ तं तौ भुवि निचस्नतुः ॥ ३ ॥
·
अवागित्यादि - तं विराधाख्यं राक्षसम् । कृतान्तेनापि यमेनापि । दुर्दमं दुःखेन दम्यत इति खल । तौ रामलक्ष्मणौ भुवि निचखतुर्निखातवन्तौ । कीदृशम् । अवाशिरसं अधोमस्तकम् अवाक् शिरो यस्येति । ऊर्ध्वं पादौ यस्येति उत्पादम् । भुजौ भङ्क्त्वा मोटयित्वा । '३३३० | जान्त-नशां विभाषा | ६ |४ | ३२|' इत्यनुनासिकलोपाभावपचे रूपम् ॥
१४२ - आंहिषातां रघु व्याघ्रौ शरभङ्गाऽऽश्रमं ततः ॥ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम् ४
आंहीत्यादि - ततो विराधवधानन्तरं रघुव्याघ्रौ शरभङ्गनान्नो मुनेराश्रमम् महिषातां गतवन्तौ । अंहेर्लुङि रूपम् । अध्यासितं आश्रयीकृतम् । श्रिया लक्ष्म्या । ब्राह्म्या ब्रह्मसम्बन्धिन्या । ब्रह्मण इयमित्यण् । '११५८ । ब्राह्मोऽजातौ |६|४|१७१।' इति निपातनात् टिलोपः । '४७० | ठिड्डाणञ् - 1४।१।१५।' इत्यादिना ङीप् । शरणे अवस्थाने साधु अनुकूलं शरण्यम् । '१६५० । तत्र साधुः |४|४|१८|' इति यत् । शरणैषिणां शरणं त्राणमेषितुं शीलं येषाम् ॥ १४३ - पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः ॥
शरभङ्गः प्रदिश्यssरात् सुतीक्ष्ण-मुनि - केतनम् ॥५॥ पुर इत्यादि - शरभङ्गो रामस्य पुरः अग्रतः वपुः शरीरं ज्वलने अनौ जुहवाञ्चकार कुष्ठित्वात्तस्य । '२४९१। भी- ही- भृ-हुवां - ३|१|३९| ' इति आम्
Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com