________________
७. भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः, उर्जनमू । संपदादित्वात् किम् । सा विद्यते यस्येति । '१९२१ । ज्योत्स्ना-तमिना-1५।२।११४' इत्यादिना वलच् । असुगागमश्च । अमूनि च रत्नानि राजभाञ्जि राजगृह्याणि । एतच्च राजन्यकं क्षत्रियसमूहः । क्षितीन्द्रो राजा अहं त्वयि स्थिते स्यामिति भवामीति शान्तमेतत् । स्यामिति निमत्रणे नियोगकरणे लिङ्॥
१३८-इति निगदितवन्तं राघवस् तं जगाद
'बज भरत ! गृहीत्वा पादुके त्वं मदीये, ॥ च्युत-निखिल-विशङ्कः पूज्यमानो जनौधैः
सकल-भुवन-राज्यं कारयो ऽस्मन्-मतेन"॥५६॥ इतीत्यादि-इति एवं निगदितवन्तं उक्तवन्तं तं भरतं राघवो रामो जगाद उक्तवान् । किमित्याह-हे भरत मदीये पादुके उपानही गृहीत्वा त्वं बज गच्छ । विधौ लोट् । असदस्त्यदादित्वे १३३६। त्यदादीनि च ।१।११७४।' इति वृद्ध. संज्ञायां तस्येदमर्थे १३३७॥ वृद्धाच्छः ।४।२।११४।१३७३। प्रत्ययोत्तरपदयोश्च ७।२।९८।' इति मदादेशः । ततश्च पूज्यमानो जनौधैर्जनसमूहैः । च्युतनिखिलविशङ्कः अपगताशेषविकल्पः । सकलभुवनराज्यं सर्वत्र भूमण्डले राज्यं कारय अनुष्ठापय । पादुके इति योज्यम् । अस्सन्मतेन अस्माकमभिप्रायेण । अन मदादेशो न भवति असदो बहुवचनान्तस्य विवक्षितत्वात् । तत्र टेकवचन इति वर्तते । ननु कथं मदीय इत्यत्र मदादेशः बहुवचनान्तत्वादिति विरोधः । पादुके रामस्यैव तहसन्मतेन इत्यत्रापि एकवचनम् । आवयो रामलक्ष्मणयोर्मतेनेति षष्ठीसमासे न दोषः ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्येप्रथमे प्रकीर्ण-काण्डे लक्षण रूपे तृतीयः परिच्छेदः (वर्गः), तथा लक्ष्य-रूपे कथानके श्री-राम-प्रवासी नाय तृतीयः
सर्गः पर्यवसितः।
चतुर्थः सर्गः१३९-निवृत्ते भरते धी-मानत्रे रामस् तपो-वनम् ॥
प्रपेदे, पूजितसू तस्मिन् दण्डकारण्यमीयिवान्. ॥१॥ निवृत्त इत्यादि-धीमान् बुद्धिमान् अन्न स्थिते मयि कदाचिद्भरतः पुनरेष्यतीत्येवं बुद्धिमान् रामः अन्नेमहर्षेस्तपोवनं प्रपेदे गतः । तस्मिंश्च तपोवने अयंपाद्यादिभिः पूजितः । दाण्डक्यो नाम भोजो भार्गवकन्यामहरत् । तच्छापात् पांसुवर्षेणाकान्तः सबन्धुराष्ट्रविनाशो यस्मिन् स्थाने तत्त्वोपलक्षितम्
१-मालिनी च्छन्दः । तलक्षणे, (२६) श्लोकोक्तं टीकनं प्रेक्ष्यम् । . . Shree Sudharmaswami Gyanbhandar-Umara, Suratwww.umaragyanbhandar.com