________________
७६
प्रकाशसहिता
"
भेदाद्विषयेष्वनुभूयमा
इति व्याख्येयं तद्यथाऽनुस्मरत इति षष्ठी पञ्चमी वा पुरुषस्य हृदयस्य च विशेषणम्, प्रीतिशब्देन च सुखं वा तदभिव्यञ्जिका वा बुद्धिवृत्तिर्गृह्यते, तत्र सुखपक्षे तस्य सर्वत्रैकरूपत्वात्तदुपरागस्यैव नेषु या प्रीतिर्यत्सुखमभिव्यज्यते सा त्वामनुस्मरतो मे हृदयान्माऽपसर्प्यतु नापयातु त्वदनुस्मरणेनैव तत्सुखमभिव्यज्यतामिति सुखाभिव्यञ्जकं भगवदनुस्मरणं प्रार्थितं भवति, वृत्तिपक्षेऽपि तथैव तत्रापि तत्खरूपसम्मानयोगक्षेमस्यापि तद्भेदस्य विषयावच्छेदमन्तरेणानवगमादवच्छेदकविषयान् बहिर्भाव्य प्रीतेरेवोपादानेऽविवेकिनांविषयेषु सुखसाधनेषु या प्रीतिः सां त्वामनुस्मरतो मम हृदयान्नापयातु विषयानुल्लङ्घ्य त्वामेव निरतिशय सुखात्मानमालम्बतामिति यत्तच्छब्दयोः सामानाधिकरण्यंस्फुटमेव, ततश्च पक्षद्वयेऽपि श्रीमन्मुरमथन चरणारबिन्दमकरन्दमन्दाकिनीमवगाहमानस्य मनसः कोऽपि समुल्लासः स्वानन्दमाविर्भावयन् भक्तिरित्यभिहितं भवति, सा च रतिरेवेति ।
दूषयति - तर्हीति । तस्याः प्रीतेः, विरक्तेश्च । भगवद्वाक्येऽग्रेतने। भवितव्यमित्युक्तं विवृणोति - भक्तिर्मयीति । तथा = विस्पष्टम् । पौनरुक्त्यं परिहरति-तस्मादिति । तदेव विवृणोति - तद्यथेति । षष्ठी. पक्षे पुरुषविशेषणम्, पञ्चमीपते हृदयविशेषणम् । प्रीतिशब्दार्थं द्वेधा निरूपयति - प्रीतीति । ननु विषयेषु यत्सुखमविवेकानां तत्कथंभगवन्तमनुस्मरतः स्यात्तत्राह - तस्येति । सुखस्येत्यर्थः । तत्तदुपराग स्येति । उपरञ्जकतत्तदुपाधेरेवेत्यर्थः । तथैवेति । सुखाभिव्यञ्जकं भववदनुस्मरणम् प्रार्थितम् भवतीत्यर्थः । तदेव दर्शयति - तत्रापीति । तत्स्वरूपेति । बुद्धिस्वरूपसमानयोगक्षेमस्य जन्यत्वात् । तद्भेदस्य बुद्धिवृत्तिविशेषस्य, बहिर्भाव्य व्युत्थाप्य, प्रीतेरेवेति । वृत्तिमात्रस्येत्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com