________________
श्रीभगवनामकौमुदी। पुराणवचनैः
प्रायश्चित्तानि चीर्णानि नारायणपराङ्मुखम् ।
न निष्पुनन्ति राजेन्द्र सुराभाण्डमिवापगाइत्यादिभिः। न निष्पुनन्ति निष्कर्षेण न पुनन्ति निष्कर्षश्च सजातीयारम्भकपापसंस्कारक्षय इत्यभिप्रायेणाह-न सम्यगिति । वाक्यार्थमाह-स चेति । नारायणपगङमुखमिति विशेषणस्य तात्पर्यमाह-तानि होति । तानि प्रायश्चित्तानि, तस्य नारायणपराङ्मु. खस्य, विदध्युः कुर्युः, तस्य वासनाध्वंसस्य । भक्त्या नामोचारणादिरूपया जन्यं यज्ज्ञानं तदेकसाध्यत्वाद् भत्येकसाध्यत्वादिति वक्तव्ये ज्ञानग्रहणम् भक्तो सत्यां ज्ञानस्यानुषङ्गिकत्वेनावश्यकत्वाद्, भत्तयेकसाध्यस्य वासनातयस्य,
तैस्तान्यघानि पूयन्ते तपोदानव्रतादिभिः ।
नाधर्मजं तहृदयं तदपीशाघिसेवयेत्यादिबहुवाक्यैरवगम्यते, कर्मात्मकप्रायश्चित्तेषु नारायणपराङ्: मुखाधिकारिकत्वे फलितमाह-- यस्त्विति।अनधिकारित्वादिति भावः। फलितं वाक्यार्थमाह-एवञ्चेति । पापक्षयं कुर्वताम् प्रायश्चित्तानामित्युक्त फलितमाह-न चैवमिति । वासनाक्षयहेतुत्वं निवार्यतइत्युक्तेः फलितमाह-नवेति। अन्यथा प्रायश्चित्तानि चीनीत्यादिवाक्ये नारायणपराङ्मुखमिति विशेषणमनमर्थकं स्यादिति भावः। हेतुत्वेनेति । कर्मात्मकप्रायश्चित्तानाम् पापवासनाक्षयहेतुत्व. निवारणे न निप्पुनन्तीत्यनेनोक्ते नारायणपराङ्मुखमिति विशेषणस्य हेतुत्वेनोपयोगादित्यर्थः । हेतुत्वेनोपयोगश्च तस्य च कथमित्यादिपूर्व ग्रन्थ उपपादितः । ननु किमिति मन्वादिवचनानामविशेषप्रवृत्तानानारायणपराङ्मुखाधिकारित्वेन संकोचः क्रियते, न च विशेषणानर्थक्यं, नारायणपराङ्मुखस्य वासनाक्षयं न कुर्वन्तीतरस्य तु तंकुर्वन्तीति तत्सार्थक्यादित्याशक्य;
कर्मणा कर्मनिहारो न यात्यन्तिक इष्यते ।
अविद्वदधिकारित्वात्प्रायश्चित्तं विमर्शनमित्येतद्वाक्यवशेन समाधते-इदमेव चेति । कर्मणा प्रायश्चित्तेन । कर्मनिहरिः पापध्वंसः। हेतुत्वमिति । पूर्ववाक्ये नारायणपरा. मुखमितिविशेषणसूचितमेवेत्यर्थः । प्रविधिकारित्वादि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com