________________
प्रकाशसहिता नन्यवेद्यत्वेऽपि भगवल्लोकप्राप्तिलक्षणाया अपि मुक्तस्तात्पर्य, तस्माद्विवक्षितार्थलाभः,
एतावताऽलमित्यस्यार्थमाह-अनेनापीति । केवलस्य साधना. न्तरनिरपेक्षस्य यस्य मुक्तिः फलं तस्य किमु वक्तव्यं कृत्स्नपापक्षय. हेतुत्वमिति कैमुतिकन्यायेन समर्थ्यत इति भावः । तदेवाह-यदीति । पर्याप्तावेतावानलमिति प्रयोगः स्यादित्यर्थः । एतावतेति तृतीयया निवारणवचनत्वेऽलंशब्दस्य साधनान्तरनिषेधः पर्यवस्यति । श्लोकस्योत्तराद्धं व्याचष्टे-एतदेवेति। उपैतीतिवर्तमानापदेशस्य तात्पर्य मवबुध्यैवोक्तं धर्मराजेन यमेन । ननु सर्वानर्थनिवृत्तिपरमानन्दरूपा मुक्तिरजामिलस्य कथं धर्मराजेनाज्ञातैवेहोक्तेति, अबहिष्नादृश्यत्वेन, भगवल्लोकप्राप्तिरूपा मुक्ति स्तु ज्ञायत एव सा च परममुक्तिस्वरूपैवेति परममक्तिमपैतीति विवक्षितार्थों लभ्यत-इति भावः ।
ततश्चापातालवनितले निमग्नमुपरिच स्वायंभुवभुवनमुल्लिखन्तं सर्वतो विसारिविविधशाखोपशाग्वं संसारमहामहीरहमेव समूलं गिलतो भगवन्नामग्रहणमहादावदहनस्य जननमरणमध्यवर्तिनः सर्वानेव क्षणेन शून्यतां नयन्तीभिरनन्तजन्मानुबन्धिनींभिरतिबहलाभिरप्यंहःस्थूलपटलीभिः कुक्षिकोटरकुहरप्रान्तोऽपि मनाङ् न पूर्यते तस्य कथं तद्रसने साधनान्तरसाकाङ्क्षत्वशङ्काऽवतारः, अपि च
न तथा ह्यघवानाजन् पूयेत तपत्रादिभिः ।। , यथा कृष्णार्पितप्राणस्तत्पूरुषनिषेवया ॥
-मोक्षः किलानादिदुःखपरम्पराऽत्यन्तोच्छेदो, नित्यसुखं चेति प्रथमद्विधा, शेषोऽपि नित्यसुखात्मता तदनुभवश्वेति, अनादिमः सायुज्याख्यः, चरमस्तु सालोक्यसाष्टिसारूप्यसामीप्यभेदाच्चतुर्विधः, सर्वमेतदवसरविशेषे सप्रमाणं निरूपयिष्यते । मुच्छ्धात्वर्थानुगुण्यतो दुःखात्यन्तनिवृत्तिरेव तत्स्वरूपं, शिष्टाः पञ्चविधास्तु तदौत्तरकालिक्योऽधिकारिविशेषभागिन्यो भवन्ति, दुःखात्यन्तनि. वृत्तिस्तु तन्मान्तरीयिकेति व चित्तदनुल्लेखोऽपि न न्यूनताऽऽवहः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com