________________
प्रकाशसहिता
आगमो मन्त्रशास्त्रं श्रुत्यादीनामर्थस्य सतत्त्वं तत्त्वं तत्र संदेहसंदोहः संशयसमूहः स एव लता तस्या लवित्रं लवनसाधनं चरणनख. चन्द्रिकाया अञ्चल एकदेशो यस्येति, अनेनानायासतः सकलसंशय. निवर्तनसामर्थ्य गुरोः सूचितं तस्यैव पूर्व गुर्वभेदेनोक्तस्य प्रसृमरंप्रसरणशीलं परमकारुण्यं सैव सुधा तस्या अर्णवस्य, परमकारुणिकत्वमेवाह-निरङ्कशेति । निरवधिकशक्तियुक्त
नानोऽस्ति यावती शक्तिः पापनिहरणे हरेः ।
तावत्कर्तुं न शक्नोति पातकं पातकी जनइति वचनाद् द्वादशाब्दादिप्रायश्चित्त क्लिश्येयुर्जना इति परमकारुणिकतया तादृशं नाम निर्मितं भगवतेति भावः । स्वचेतस इति । स्वशब्देनौद्धत्यपरिहारः, परीक्षकाणां चेतःसमाधानं प्रयोजनमित्युक्त प्रौद्ध त्यमिव भायाद्, वस्तुतस्तु तदेव प्रयोजनं, विचाराङ्गपूर्वपक्षरचनाप्रतिजानीते-तत्रेति। भगवन्नाम्नि विषय इत्यर्थः । अयं वक्ष्यमाणः केषांचिदतिसाहसिकानामावेशोऽनूद्यत इति संबन्धः, परमपुरुषार्थप्रच्युतत्वानरकपातोन्मुखत्वाच्चातिसाहसिकत्वमनूद्यमानोऽपि महापातकहेतुः किमुत कृतः
अर्थवादं हरेर्नानि संभावयति यो नरः।
स पापिष्ठो मनुष्याणां निरये पतति स्फुटमित्यादिवचनात् , तादृशोऽप्यनूद्यते निराकरणार्थम् । ननु तथाऽपि महापातकं स्यानेत्याशयेनाह-भगवदिति । निराकरणार्थानुवादस्य भगवन्नाममाहात्म्यमनने पर्यवसन्नत्त्वात्तस्य च भगवदुपासनासमानत्वात्पापक्षयहेतुरेवायमनुवादो न पापहेतुरिति भावः। मननस्येति । युक्तिनिरूपणात्मकग्रन्थकरणस्येत्यर्थः । उपासनाभजनं राजानमुपास्तइत्यादौ तथा दर्शनात्, तत्समानफलत्वं चापातत उक्तं मननस्य, तथा हि भजनं श्रवणकीर्तनादिरूपं नवविधं, कीर्तनं च विविधं नामकीर्तनंगुणकीतनं च, तत्र यथा भगवञ्चरणारबिन्दस्य माहात्म्यनिरूपणं लावण्यनिरूपणं वा भगवद्गुणकीर्तनमेव, एवं भगवन्नाममाहात्म्यनिरूपणंविशेषतो युक्तिभिः क्रियमाणं भगवद्गुणकीर्तनमेव । नन्वेवमेतरय ग्रन्थस्य भगवत्स्तुतित्वमापद्यतेति चेद् इष्टमेवैतद् न त्वेतावता तुद्रप्रभुषु त्वमिन्द्रस्त्वं चन्द्र इत्यादिवदसद्गुणारोपो भगवति मन्तव्यो "विष्णोर्नु कं वीर्याणि" इत्यादिश्रुतिभिर्भगवतोऽसंख्यगुणवत्त्वावधारणाद्, यद्वा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com