________________
प्रकाशसहिता
ननु रामकृष्णादिशद्वानामसंग्रहापत्तिः तेषां परमेश्वरवाचकत्वाभावाद् भावे वा रामे कृष्णपदप्रयोगापत्तिः कृष्णे रामपदप्रयोगापत्तिः न चैवं पुराणेषु लोके वा दृश्यत इति चेत् ? तेऽपि तद्वाचका एव किंतु यदुकुलप्रसूतत्वं कृष्णशद्वे रघुकुलप्रसूतत्वं रामशद्ध उपाधिः: तद्विशिष्टे परमेश्वरे वा शक्तिः, एवमन्येष्वपि शद्वेषु द्रष्टव्यम् । नामशवेन प्रातिपदिकं, तच्च द्विविधं रूढं यौगिकंच, रामकृष्णगोविन्दनारायणशिवशकरेत्यादि रमारमणपार्वतीरमणेत्यादि च, तच्च विभक्तिसहितं तद्रहितं वा यथा रामः कृष्ण इत्यादि हरि विष्णु इत्यादि, न च विभक्तिरहितस्यापशद्वत्वात्तस्य च निषिद्धत्वादनुच्चारणमितिवाच्यं, "विष्णो ामानुकीर्तयेदि” ति विधिविहिते निषेधाप्रवृत्तेः, किंच शक्तिशून्यत्वम् अपशद्वत्वं, न च हरिविवादिप्रातिपदिकरय शक्तिशून्यत्वं तथा सति गावीगोण्यादिभ्य इव विभत्त्यनुत्पादप्रसङ्गा, न हि गोप्रातिपदिक स्यापशद्वत्वं व्यवहरन्तिः वाक्यार्थानुपयोगितया न प्रयुञ्जते परं, विष्णुनाम तु विधिवशादणार्थमुच्चार्यत एवमेव च शिष्टाचारः, तदयंश्लोकतात्पर्यार्थः, विष्णोर्नाम शास्त्रीयवैराग्यवतां श्रवणाधिकारिणां. तत्वमस्यादिवाक्यार्थमखण्डं चैतन्यं लक्षणयोपस्थापयतु; भक्तानां च भगवन्तमुपस्थापयतु; तदुभयविलक्षणानामतिरागिणां च चण्डालपर्यन्तानां तु किंचिदुपस्थापयतु तत्सर्वथा संकीर्त्यमानं सर्वदोषराशीविनाशयति सूर्य इव तमोजालं सर्वाभीष्टं च प्रयच्छतीति ॥१॥
अत्र ग्रन्थे भगवान्महाविषयः भगवद्भक्तिर्महाप्रयोजनं मुक्तिश्चेति सूचयन् भगवन्तंस्तौति-कारुण्येति । पुण्डरीकनामा भक्तः प्रियो यस्येति विठ्ठल इत्यर्थः, यस्याघ्रिः कारुण्यमेवामृतं तस्य निर्भर इव, सुरस रिद् गङ्गा तस्या धाकरः खनिरिव, श्रीवध्वा लीला क्रीडा तत्सम्बन्धि अब्जं कमलमिव, व्रजकामिनीकुचतटीसम्बन्धी कस्तूरिकास्थासकः
१-इदमापाततो, योगरूढयौगिकरूढे अपि बोध्ये । तत्र पदाघटितशक्तताऽवच्छेदकसमुदायत्ववत्त्वं रूढत्वम् । पदघटितशक्तताऽवच्छेदकत्वाभाववासमु. दायत्ववत्त्वं यौगिकत्वम् । रूढिशक्यताऽवच्छेदकविशिष्टधर्मावच्छिन्नशक्तपदघटितसमुदायत्ववत्त्वं योगरूढत्त्वं, वैशिष्टयं च सामानाधिकरण्यसंसर्गेण । रूढ्याश्रयताऽवच्छेदकं यद् रूट्यर्थताऽवच्छेदकच्यधिकरणधर्मावच्छिमशक्तपदघटितसमुदायत्वं. तद्वत्त्वं यौगिकरूढत्वम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com