________________
११२
प्रकाशसहिता समर्थास्तस्य यस्यात्मा केवलालम्बनः सदेत्यत्रापि यस्यात्मा केवलालम्बनस्तस्य सदा न समर्थाइत्यन्वयः, वचनान्तरानुरोधाद्,
गोमूत्रयावकाहारो ब्रह्महा मासिकैर्जपै
रित्यदावपि मोक्षसाधनत्वादष्टाक्षरब्रह्मविद्यायाः, मोक्षस्य च परमशुद्धिरेव विवक्षिता न पापक्षयमात्रं, ततश्च तत्तदावृत्तिविशेषात्तत्तत्पापवासनाविनिवृत्तिस्ततश्च पुष्कलशुद्धिरिति । अथ वा सकृत्कीर्तनादेव प्रक्षीणेऽपि पापे कस्य चिदश्रद्धारोपितमपूतत्वमात्मनि मन्यमानस्य तन्निबन्धनं दुःखं न निवर्त्तते; तस्य तदारम्भकपातकप्रध्वंसायावृत्तिविशेषयुक्तं मन्त्राध्ययनं विधीयते, प्रारब्धपरिक्षये च युक्तमेवावृत्त्यपेक्षणम् , अारोग्यादिषु तथादर्शनात् ।
ननु यथोक्तावृत्तिविहीनाभ्यामपि श्रवणकीर्तनाभ्यां प्रारब्धपरिक्षयोऽपि श्रीस्कन्दपुराणनरसिंहपुराणयोदृश्यते ? सत्यं, तत्त श्रीमत्पञ्चाक्षरनारदादिमहापुरुषानुग्रहसहचारितयेति निश्चीयते; तस्मादावृत्तिविधीनामन्यार्थत्वादप्रारब्धप्राचीनपापक्षये सकृत्कीर्तनमेव साधनमिति निरपवादम्, अत्र वचनानि सन्त्यनन्तानि, तथा हि
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रतीति,
परिकरबन्धश्चात्र प्रक्षीणपापत्वमेव, तत् खलु प्रथम सोपानमपवर्गप्रासादारोहणस्य, तथा । हत्याऽयुतं पानसहस्रमुग्रं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com