________________
१००
प्रकाशसहिता
धिनो वाक्यस्य दुर्बलत्वात् श्रुतिरिह केवलया भक्त्येति तृतीया, वासुदेवपरायणा धुन्वन्त्यघमिति तु वाक्यम्, तो गर्भितोऽयं हेतुः यस्माद्वासुदेवपरापणास्तस्मात्सकलमधं धुन्वन्तीति सर्व्वानुस्यूतः सर्वाधारश्च देवः परमयनमाश्रयो येषां तेषां सर्वेश्वरसनाथानामुचितमेव सर्व्वाघविजयित्वमिति भावः । अपि च स्वरूपेण तदाश्रयत्वे मुख्योऽयं शब्दः, भावस्य तु तदालम्बनत्वे गौणः, तस्मान्न भावस्य कीर्त्तनाङ्गत्वे प्रमाणमिदम् । सकृन्मनः कृष्णपदारविन्दयो— निवेशितं तद्गुणरागि यैरिहे -
त्यत्रापि विषय सौन्दर्यादेव प्राप्तस्य रागस्मरणस्य सुकरत्वप्रतिपादनार्थमनुवादः ।
● एवं विमृश्य सुधियो भगवत्यनन्ते सर्वात्मना विदधते खलु भावयोगम् । ते मे न दण्डमर्हन्त्यथ यद्यमीषांस्यात्पातकं तदपि हन्त्युरुगायवादः । इत्यत्रापि पातकाभावादेव दण्डानर्हत्वं; तदभावश्च तत्कारणाभावाद्, अत एवोक्तमथ यद्यमीषां स्यात्पातकमिति । रागाद्यभावेऽपि यदि कथञ्चित्प्रमादात्पातकं - स्यादित्यर्थः; तदपि हन्त्युरुगायवाद इत्यपि न भावसहकृतं कीर्तनम् अपिशब्दाद न केवलं भावोदयात्प्राचीनमेव; अपि तूपरितनमपि पातकं हन्त्युरुगायस्य बहूभिधानस्यानन्तानन्दसुधासिन्धोर्बहुभिर्गायमानस्य वा सकलजगत्प्रशस्यपुण्यकीर्त्तेर्वादः कीर्त्तनं, भावस्तु विद्यमानोऽप्युदास्ते, अतितुच्छत्वात्पापनिवृत्तेरिति हि तस्यार्थः ।
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com