________________
श्रीभगवन्नाम कौमुदी |
ये देवसिद्धपरिगीत पवित्रगाथा - ये साधवः समदृशो भगवत्प्रपन्नाः । तान्नोपसीदत हरेर्गदयाऽभिगुप्तानैषां वयं त्वधिकृताः प्रभवाम दण्ड
१०१
इत्यस्याप्ययमेवार्थः, कथं ? ये समदृशः सर्वात्मभावेन भगवन्तं पश्यन्ति, अत एव साधवो रागादिदोषरहितास्तान्नोपसीदत तेषां समीपमपि मा यात, न ह्येषां - वयं स्वामिनः पापिनां हि निग्रहे वयमधिकृताः, न तेषां - पापगन्धोऽपि अथ कथञ्चित्स्यात् पातकं तथाऽपि वयंदण्डे न प्रभवामः भगवत्प्रपन्ना हि ते भगवत्प्रपदनेन कीर्त्तनादीनामन्यतमेन दास्यलक्षणेन वा भजनेनैव निरस्तपापा:, अत एव सकलजगत्प्रसिद्धां पापोत्पत्तिं प्रतिपद्यमानाः श्रुतिपुराण सिद्धान्त रहस्यगहनगर्भितां तु तन्निःसरणसरणिमविदुषां भवादृशां भ्रान्त्याऽपि कथंचिदुपगमनं स्यादिति हरेर्गदया सर्वतो गुप्तास्तान्नोपसीदतेति, अपि च देवानां मध्ये ये सिद्धा माहात्म्यविशेषसंपन्नाः पुरन्दरादयः तैः स्वतःपूतैरप्यतिशयेन पूतत्वाय परिगीता पवित्रभूता गाथा येषां लक्षणापेतमपि यन्नामाङ्कितं पद्यं वा प्राकृतभाषारचितं वा तेषां पूतत्वे कतमः सन्देह इति । " खपादमूलं भजत" इत्यत्र तु विविदिषावाक्यविनियुक्तात्कर्मणोऽन्यत्सर्वमेव मुक्तिविरुद्धं कर्म विकर्मशब्देनोच्यते न निषिद्धकर्ममात्रं तस्य कीर्त्तनादिमात्रान्निवृत्तेर्दर्शितत्वात्,
श्री पराशर संहितायामपि न चलतीत्यादिभिरुपलचितानां सततं मनसि जनार्दनं दधानानां पापहेतूनां -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com