________________
सह्याद्रौ चोजयंते विपुलगिरिवरे गुर्जरे रोहणाद्रौ, श्रीमत्तीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥३॥ आधाटे मेदपाटे क्षितितटमुकुटे चित्रकूटे त्रिकूटे, लाटे नाटे च घाटे विटपिघनतटे देवकूटे विराटे । कर्णाटे हेमकूटे विकटतरुकटे चक्रकोटे च भोटे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥४॥ श्रीमाले मालवे वा मलयजनिखिले मेखले पीच्छले वा, नेपाले नाहले वा कुवलयतिलके सिंहले मैथले वा। डाहाले कोशले वा विगलितसलिले जंगले वा तिमाले, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥०॥ अंगे बंगे कलिंगे सुगतजनपदे सत्मयागे तिलंगे, गौडे चौडे मुरीडे वरतरद्रविडे उद्रियाणे च पौद्रे । आर्द्र मा पुलौंद्रे द्रविडकुवलये कान्यकुब्जे सुराष्टे, श्रीमतीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥६॥ चंपायां चद्रमुख्यां गजपुरमथुरापत्तने चाजयिन्यां, कौशल्यां कोशलायां कनकपुरवरे देवगियों च काश्यां । नाशिक्ये राजगेहे दशपुरनगरे भद्दीले ताम्रलिप्त्यां, श्रीमत्तीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥७॥ स्वर्गे मत्येतरिक्षे गिरिशिखरद्रहे स्वर्णदीनीरतीरे, शैलाये नागलोके जलनिधिपुलिने दुर्गमध्येत्रिसंध्यं । ग्रामे रन्ये वने वा स्थलजलविषमे भूरूहाणां निकुंजे, श्रीमत्तीर्थकराणां प्रतिदिवसमहं तत्र चैत्यानि वंदे ॥८॥ श्रीमन् मेरुकलाद्रौ रुचकनगवरे शाल्मलौ जंबुले,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com