________________
जम्बूस्वामिचरिते
आजन्मतो यदाभ्यां हि संप्राप्त मुखमामरम् । तत्तदा पिंडितं सर्व दुःखीभूयमिवागमत् ॥ ९॥ अथ संबंधिनो देवास्तावुपेत्य यथोचितम् । तयोर्विषादनाशाय पुष्कलं वचनं जगुः ॥ १० ॥ भो धीरौ धीरतामेव कुर्वीताथां शुचात्र किम् । जन्ममृत्युजरातंकभयानां को न गोचरः ॥ ११ ॥ साधारणी भवत्येषा सर्वेषां प्रच्युतिर्दिवः। चौरायुषि परिक्षीणे न वोढुं क्षमते क्षणम् ।। १२ ।। नित्यालोकोऽप्यनालोको द्विलोकः प्रतिभासते । विरामात्पुण्यदीपस्य समंतादंधकारितः॥ १३ ॥ यथा रतिरभूत्स्वर्गे पुण्योपायादनारतम् । तथैवात्रारतिभूयः क्षीणपुण्यस्य जायते ॥ १४ ॥ न केवलं परिम्लानिर्मालायाः सहजन्मनः । पापातप तपत्यंते जंतोानिस्तनोरपि ॥ १५ ॥ कंपते हृदयं पूर्व चरमं कल्पपादपः । गलति श्रीः पुरा पश्चात्तनुच्छाया समं हियाः॥१६॥ प्रत्यासन्नच्युतेरेव यद्दौःस्थ्यं त्रिदिवौकसाम् । न. तत्स्यान्नारकस्यापि प्रत्यग्रं युवयोः स्थितम् ।। १७॥ यथोदितस्य सूर्यस्य निश्चितोऽस्तमयः परः। तथा पातोन्मुखः स्वर्गे जंतोरभ्युदयोऽप्ययम् ॥१८॥ तस्मान्न गच्छतः शोकं कुयोन्यावर्तपातिनम् । कुर्यातां च मतिं धर्मे युवामार्यो वृषार्जने ॥ १९ ॥