________________
अथ चतुर्थपरिच्छेदः
उग्राग्रोतकवंशोत्थः श्रीपासातनयः कृती । वर्द्धतां टोडरः साधू रसिकोऽत्र कथामृते ।। इत्याशीर्वादः ।
सुमतिं सुमतिं वंदे कुमतध्वांतशांतये । पद्मप्रभं त्रिधा नौमि पद्माभं पद्मबांधवम् ।। १ ।। अथ ताभ्यां सुखाम्भोधिमनाभ्यां मगधाधिप । निर्वाहितो निजः कालः सप्ताध्यायुष्यसंमितः ॥ २ ॥ एकदाथ तयोरासन् भूषासंबन्धिनोऽमलाः । मणयस्तेजसा मंदा निशापाये प्रदीपवत् || ३ | माला चाप्यभवन्म्लाना महोरुस्थलगामिनी । शुचैव तत्स्वसंवन्धिलक्ष्मीविश्लेषभीरुका ॥ ४ ॥ प्रचकं तदा वाससंबंधी कल्पपादपः । तद्वियोगमहावातधृतः साध्वसमादधत् ।। ५ ।। वपुः कांतिस्तयोरासीत्सद्यो मंदायिता तदा । पुण्यातपत्रविश्लेषे तच्छाया कावतिष्ठते ।। ६ ।। तावालोक्य तदाध्वस्तकांती विच्छायतां गतौ । द्रष्टुमक्षमकाः सर्वे सनत्कुमारकल्पजाः ॥ ७ ॥ तयोर्दैन्यात्परिप्राप्ता दैन्यं तत्परिचारकाः । तरौ चलति शाखाद्या विशेषान्न चलति किम् ॥ ८ ॥