________________
७४
जम्बूस्वामिचरिते
अंते समाधिना मृत्यु संप्राप्य विमलाचले । पण्डितं मरणं प्राप्तं द्वाभ्यां च शुभयोगतः ॥ २३८॥ ततस्तृतीये स्वर्गे द्वौ सनत्कुमारसंज्ञके । अभूतां दिविजो राजन् सप्तसागरजीवितौ ।। २३९ ॥ तत्र दिव्याप्सरोभोगान् भुंजानौ मुखमासतुः। द्वावपि व्रतमाहात्म्यात्पुत्रावार्यवसोनृप ॥ २४० ॥ यस्य धर्मस्य माहात्म्यात्तौ जातावमरेश्वरौ । स धमः शर्मसंसिद्धचै सेव्यः सद्भिर्निरन्तरम् ।। २४१ ॥ इतिश्रीजम्बूस्वामिचरिते भगवच्छ्रीपश्चिमतीर्थकरोपदेशानुसरितस्याद्वादानवद्यगद्यपद्यविद्याविशारदपण्डितराजमल्लविरचिते साधुपासात्मजसाधुटोडरसमभ्यार्थते भावदेवभवदेवसानत्कुमारस्वर्गगमनवर्णनो नाम
तृतीयः परिच्छेदः ।
१ मरणं त्रिविधं बालमरणं बालपण्डितमरणं पण्डितमरणं च । असंयतसम्यग्दृष्टीना मरणं बालमरणं । संयतासंयतानां मरणं बालपण्डितमरणं । केवलिनां मरणं पण्डितमरणं।