________________
जम्बूस्वामिचरिते
कश्चामृतं परित्यज्य विषमिच्छति मूढधीः ।
कश्चाश्मानं समादत्ते त्यक्त्वा जाम्बूनदं शठः ।। २१७ ।। स्वर्गापवर्गयोः शमं मुक्त्वा को नरकं व्रजेत् । त्यक्त्वा जैनेश्वरी दीक्षां भोगान् कामयतेऽधमः ॥ २९८ ॥ इत्यादिविविधैर्वाक्यैः प्रतिबोधविधायकैः ।
बोधितः स तया वेगाल्लज्जया भूद्धोमुखः ॥ २१९ ॥ पृष्टा नागवसू यात्र त्वया किंचित्स्पृहालुना ! मामेवाध्यक्षतः पश्य तामभोगोचितां मुनेः ॥ २२० ॥ वपुस्तस्याः कृमिस्थानं श्रवद्वारमपावनम् । मुखं लालाविलं पूति कालिंगसदृशं शिरः ।। २२१ ॥ स्खलद्वाक्यमसंबन्धं वीभत्सो घर्घरः स्वनः । गर्ताकारौ कपोलौ द्वौ सुकूपाविव चक्षुषी ।। २२२ ॥ किंवा बहुतरालापैः सैवैपाहं समक्षतः । शुष्कमांसौ भुजौ तस्याः पतितौ च पयोधरौ ।। २२३ ॥ स्वाधिकारात्प्रमत्तौ द्वौ नराविव कुसेवया । चर्मास्थिभूत सर्वांगी निष्कामा व्रततत्परा ॥ २२४ ॥ धिरदुदैवमिदं यन्मां स्मारं स्मारं पुनः पुनः । सशल्येन त्वया धीर कालोऽयं गमितो वृथा ।। २२५ ।। सुंदरं न किमप्यस्ति नूनं योषित्कुटीर के । अतश्चेतो विरज्याशु निःशल्यं तत्तपः कुरु ।। २२६ ।। तपसा येन प्राप्यते स्वर्गमोक्षसुखानि च । किं वृथा विषयैरेभिः सौख्याभासनिबन्धनैः ॥ २२७ ॥
७२