________________
भावदेवभवदेवसानत्कुमारस्वर्गगमनवर्णनम्
७१
amannermoremananews
आर्ये वद किमप्यन्यत्पृच्छामीह महादरात् । न संदेशवचो दृष्यं महतामपि संमतम् ।। २०६॥ नाम्ना नागवम् यासीद्भवदेवविवाहिता। सा विना पतिना बाला यावदद्याभवत्कथम् ॥ २०७॥ इति वाचा विकारैः स ज्ञातो भर्तृचरस्तया । पश्चात्तापं मुकुर्वत्या भिया कंपितयेव वा ॥ २०८ ॥ नूनं मुनिपदं त्यक्तमयमिच्छति मूढधीः । त्यक्तधैर्यातिकामांधो दुःसहस्मरपीडितः ॥ २०९ ॥ अतो धर्मानुरागाद्धि बोद्धव्योऽयं मयाधुना । यथाकथंचित्सद्वाक्यर्जिनोक्तैरमृतोपमैः ।। २१० ॥ अथ चेत्सस्मरश्चायं भोगानिच्छति सर्वतः । दृढव्रतं च मे भूयात्प्राणांतेऽपि गरीयसि ॥ २११ ॥ विचिंत्येति क्रियाक्रांता सोचे साक्षादृढव्रता। विनयेनानता मूर्ध्नि भारतीव प्रियंवदा ॥ २१२ ॥ स्वामिन्नीड्य महाप्राज्ञ धन्योऽसि त्वं जगत्त्रये । चारित्रं यत्त्वया प्राप्तं दुष्पाप्यं महतामपि ॥ २१३ ।। त्वं पूज्यास्त्रिदिवेशानां मुनिः परमपावनः। सर्वसंपन्निधानस्त्वं मोक्षलक्ष्मीस्वयंवरः ॥ २१४ ॥ तारुण्येऽपि महाभोगान्कश्चैतांस्त्यक्तुमर्हति । भवतोऽन्यत्र भो सौम्य सुरलोकेऽपि दुर्लभान् ॥ २१५ ॥ प्रारंभे मधुराभासा विपाके कटुकाः स्फुटम् । हालाहलनिभा भोगाः सद्य प्राणापहारिणः ॥ २१६॥