________________
जम्बूस्वामिचरिते
प्रविष्टः स ददर्शोच्चैर्जिन चैत्यगृहं शुभम् । उत्तुंगतोरणोपेतं ध्वजमालाभिराततम् ।। १९५ ।। मणिमुक्तामयैर्वाढं' भूषितं भूषणैः शुभैः । यातायातांगनाभिश्च कृतगानमहोत्सवम् ।। १९६ ॥ त्रिः परीत्याथ भक्त्या तां वंदित्वा प्रतिमां विभोः । उपविष्टो यथास्थाने भवदेवो नाना मुनिः ॥ १९७ ॥ तत्र चैत्यालये ख्याता सायिंका या व्रतान्विता । चर्मास्थिशेषसर्वागी मुनिं दृष्ट्रा ववंद तम् ।। १९८ ॥ समाधानं मुने तेऽद्य संयमे तपसि व्रते । ध्याने ज्ञाने च स्वाध्याये तथा कच्चिदितीरितम् ॥ १९९ ॥ मुनिनापि यथायोग्यं पृष्टा तत्कुशलं तदा । सानैव तां समुद्दिश्य प्रोक्तमंतःस्पृहालुना ॥ २०० ॥ आर्ये पूर्वमभूतां द्वौ विद्वांसौ ललिताकृती । द्विजस्यार्यवसोः पुत्रौ विख्यातौ सर्वसम्मतौ ।। २०१ ॥ तत्र ज्यायानजेयोऽन्यैर्भावदेव इति स्मृतः । भवदेवो लघीयांश्च वाग्मी वेदविदांवरः ॥ २०२ ॥ पावने चेद्विजानासि ब्रूहि मे संशयच्छिदे ।
क कथं तिष्ठतस्तौ द्वौ का कथा चाधुना तयोः ॥ २०३ ॥
सोचे तद्वाक्यमाकर्ण्य निर्विकारा सुचेष्टिता । धन्यौ तौ मुनिनाथौ द्वौ जातौ कालादिलब्धितः ॥ २०४ ॥ श्रुत्वेतद्भवदेवोऽसायुक्तवानसमंजसम् ।
उद्गिरन्निव गूढार्थमात्माकृतं तदातुरः ॥ २०५ ॥
१ अतिशयेन । २ कञ्चित् कामप्रवेदने इत्यमरः ।