________________
भावदेवभवदेवसानत्कुमारस्वर्गगमनवर्णनम्
दीक्षामादातुकामोऽपि विद्यते साभिलाषवान् । विरागो भवितेत्यस्मै दीक्षां ददौ महामुनिः।।१८४॥ अथादायापि नंग्रेथीं दीक्षां सर्वसमक्षतः। दग्धः स्मरानलेनेति हृदि शल्यमधारयत् ॥ १८५ ।। मुग्धां संपूर्णतारुण्यां पूर्णचंद्रनिभाननाम् । द्रक्ष्याम्यहं कदा दीनां मृगाक्षी तां मुसस्मराम् ॥ १८६ ।। घनस्तनभरानम्रां कोमलां पल्लवाधराम् । मामृते विरहव्याप्तां चिंतयंती मुहुर्मुहुः ॥ १८७ ॥ एवं चिंतयतस्तस्याजसमच्छिन्नधारया । स्वाध्यायं ध्यानमप्येतज्ज्ञानमासीत्तपो व्रतम् ॥ १८८ ॥ अथैकदा स सौधर्मो गणी संघसमन्वितः । विहरन्नागतो भूयो वर्द्धमानाभिधे पुरे ॥ १८९ ।। बाह्योद्यानप्रदेशेषु स्थिताः सर्वेऽपि संयताः। कायोत्सर्गेण चैकाग्यं शुद्धात्मध्यानसिद्धये ॥ १९० ॥ पारणस्य कृते व्याजादनुग्रामं चचाल सः। भवदेवश्चलञ्चित्तो भायाँ द्रष्टुं समुत्सुकः ॥ १९१॥ पर्यटन्पथि पांथः संश्चितति स्म स सस्मरः । अद्य मुंजामि कांतां तां सालंकारां सकौतुकाम् ॥ १९२॥ तारुण्यजलधेर्वेलां कम्री कामयामिव । मत्स्यीमिव विना तोयं मामृते विरहातुराम् ॥ १९३ ॥ चिंतयन्निति मार्गेषु क्रमाद् ग्राममवीविशत् । सांध्यरागारुणो भानु: प्रतीची च दिगंगनाम् ।। १९४ ॥ १ कामुकी।